भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3383-3402

3383

अविरलमदजलनिवहं भ्रमरकुलानीकसेवितकपोलम् ।
अभिमतफलदातारं कामेशं गणपतिं वन्दे ॥

3384

अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः ।
त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः संततं मङ्गलं वः ॥

3385

अविरलमिव दाम्ना पौण्डरीकेण नद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥

3386

अविरलविगलन्मदजल- कपोलपालीनिलीनमधुपकुलः ।
उद्भिन्ननवश्मश्रु- श्रेणिरिव द्विपमुखो जयति ॥

3387

अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥

3388

अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् ।
जन्मजन्मान्तरे दुःखी स नरः स्यादसंशयम् ॥

3389

अविलम्बि सुवृत्तं च उदरं चातिपूजितम् ।
नातिदीर्घं समं पृष्ठं किंचिच्च विनतं शुभम् ॥

3390

अविलम्बे कृत्यसिद्धौ मान्त्रिकैराप्यते यशः ।
विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥

3391

अविविक्तावतिस्तब्धौ स्तनावाढ्याविवादृतौ ।
विविक्तावानतावेव दरिद्राविव गर्हितौ ॥

3392

अविवेकमतिर्नृपतिर् मन्त्री गुणवत्सु वक्रितग्रीवः ।
यत्र खलाश्च प्रबलास् तत्र कथं सज्जनावसरः ॥

3393

अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाव् अवसादं विशिखौ विनिन्यतुस्तम् ॥

3394

अविवेकि कुचद्वंद्वं हन्तु नाम जगत्त्रयम् ।
श्रुतिप्रणयिनोरक्ष्णोर् अयुक्तं जनमारणम् ॥

3395

अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः ।
प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः ॥

3396

अविवेकिनि भूपे यः करोत्याशां समृद्धये ।
यास्याम्यहमनेनेति करोत्याशां स मृद्धये ॥

3397

अविवेको हि सर्वेषाम् आपदां परमं पदम् ।
विवेकरहितो लोके पशुरेव न संशयः ॥

3398

अविशदचलं नेत्रप्रान्तावलोकनमस्फुटं चकितचकिता वाचः स्पर्शः क्वचिज्जनसंकुले ।
इति तव मया प्रेमारम्भे य एव निरीक्षिताः कठिनमनसो दृष्टा भावास्त एव विरज्यतः ॥

3399

अविशीर्णकान्तपात्रे नव्यदशे सुमुखि संभृतस्नेहे ।
मद्गेहदीपकलिके कथमुपयातासि निर्वाणम् ॥

3400

अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥

3401

अविश्रान्तो वातो दहन इव सोयं जनयति प्रसक्तं सातत्याद् दलयति कुलाद्रीनपि जलम् ।
प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥

3402

अविश्रामं वहेद् भारं शीतोष्णं च न विन्दति ।
ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc