भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3363-3382

3363

अविभाव्यतारकमदृष्टहिम- द्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभाद् अपदोषतैव विगुणस्य गुणः ॥

3364

अविभ्रमालोकनदुर्भगाणि प्रव्यक्तवक्त्रस्तनमण्डलानि ।
अङ्गानि रे पामरकामिनीनाम् अपुण्यतारुण्य किमाश्रितानि ॥

3365

अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् ।
भववीतये नहि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥

3366

अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् ।
अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥

3367

अविरतकुसुमावचायखेदान् निहितभुजालतयैकयोपकण्ठम् ।
विपुलतरनिरन्तरावलग्न- स्तनपिहितप्रियवक्षसा ललम्बे ॥

3368

अविरततरुणीसहस्रमध्य- स्थितिविगलत्पुरुषव्रता इवैते ।
प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोऽपि ॥

3369

अविरतमक्लममुद्धृत- धरातलं सुस्मितोल्लसद्वदनम् ।
जगदानन्दविधायिनम् उपैमि शरणं प्रभुं शेषम् ॥

3370

अविरतमधुपानागारमिन्दिन्दिराणाम् अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
प्रविततबहुशालं सद्म पद्मालयाया वितरति रतिमक्ष्णोरेष लीलातडागः ॥

3371

अविरतमिदमम्भः स्वेच्छयोच्चालयन्त्या विकचकमलकान्तोत्तानपाणिद्वयेन ।
परिकलित इवार्घ्यः कामबाणातिथिभ्यः सलिलमिव वितीर्णं बाललीलासुखानाम् ॥

3372

अविरतरतलीलायासजातश्रमाणाम् उपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥

3373

अविरतविरुतकपोतीम् अर्पितरसमावृणोति घनवलनः ।
नवलतिकामतिकातर- तरलितमदिरद्वयीं मुदिरः ॥

3374

अविरताम्बुजसंगतिसंगलद्- बहलकेसरसंवलितेव या ।
ललितवस्तुविधानसुखोल्लसत्- तनुरुहा तनुरात्मभुवोऽवतात् ॥

3375

अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः ।
रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥

3376

अविरलकरवालकम्पनैर् भ्रुकुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥

3377

अविरलधारानिकरं जलदैर्जलमुत्सृजद्भिरतिमात्रम् ।
मानिवधूहृदयेभ्यः कालुष्यमशेषतो मृष्टम् ॥

3378

अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया वचनविषयः संदेशोऽन्यस्तया विहितो न ते ।
मनसि किमपि ध्यायन्त्या तु क्षणं तव कान्तया पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥

3379

अविरलपरागसैकत- मकरन्दतरङ्गिणीमनुवनान्तम् ।
पिकयुवतिजानुदघ्नीं गाहन्ते मधुपयोषितस्तृषिताः ॥

3380

अविरलपरिवाहैरश्रुणः सारणीनां स्मरदहनशिखोष्णश्वासपूरैश्च तस्याः ।
सुभग बत कृशाङ्ग्याः स्पर्धयान्योन्यमेभिः क्रियत इव पुरो भूः पङ्किला पांसुला च ॥

3381

अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्- तटमुवि कन्दुकविभ्रमं बभार ॥

3382

अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc