भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3343-3362

3343

अविदितसुखदुःखं निर्गुणं वस्तु किंचिज् जडमतिरिह कश्चिन् मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारुण्यघूर्णन् मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥

3344

अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः ।
गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥

3345

अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवा ।
पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ॥

3346

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥

3347

अविद्याकामकर्मादिपाशबन्धं विमोचितुम् ।
कः शक्नुयाद् विनात्मानं कल्पकोटिशतैरपि ॥

3348

अविद्यानाशिनी विद्या भावना भवनाशिनी ।
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् ॥

3349

अविद्याबीजविध्वंसाद् अयमार्षेण चक्षुषा ।
कालौ भूतभविष्यन्तौ वर्तमानमवीविशत् ॥

3350

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥

3351

अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥

3352

अविद्वानपि भूपालो विद्यावृद्धोपसेवया ।
परां श्रियमवाप्नोतिजलासन्नतरुर्यथा ॥

3353

अविधेये जने पुंसां कोपः किमुपजायते ।
विधेयेऽपि च कः कोपस् तन्निवेशितजीविते ॥

3354

अविधेयो भृत्यजनः शठानि मित्राण्यदायकः स्वामी ।
विनयरहिता च भार्या मस्तकशूलानि चत्वारि ॥

3355

अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये ।
फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु भृशायते ॥

3356

अविनयरतमादरादृते वशमवशं हि नयन्ति विद्विषः ।
श्रुतविनयनिधिं समाश्रितस् तनुरपि नैति पराभवं क्वचित् ॥

3357

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ॥

3358

अविनाशिनमग्राम्यम् अकरोत् सातवाहनः ।
विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥

3359

अविनीतः सुतो जातः कथं न दहनात्मकः ।
विनीतस्तु सुतो जातः कथं न पुरुषोत्तमः ॥

3360

अविनीतस्य या विद्या सा चिरं नैव तिष्ठति ।
मर्कटस्य गले बद्धा मणीनां मालिका यथा ॥

3361

अविनीतो भृत्यजनो नृपतिरदाता शठानि मित्राणि ।
अविनयवती च भार्या मस्तकशूलानि चत्वारि ॥

3362

अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत् तमसा ।
उदिते दिशः प्रकटयत्यमुना यदधर्मधाम्नि धनुराचकृषे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc