भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3323-3342

3323

अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि ।
व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥

3324

अविज्ञातप्रयुक्तेन धर्षिता मम वाससा ।
संवृता शरदभ्रेण चन्द्रलेखेव शोभते ॥

3325

अविज्ञातविशेषस्य सर्वतेजोऽपहारिणः ।
स्वामिनो निर्विवेकस्य तमसश्च किमन्तरम् ॥

3326

अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः ।
आरम्भः कर्मणां शश्वद् आरब्धस्यान्तदर्शनम् ॥

3327

अविज्ञातस्य विज्ञानं विज्ञातस्य विनिश्चयः ।
अर्थद्वैधस्य संदेहच् छेदनं शेषदर्शनम् ॥

3328

अविज्ञातावसक्तेन दूषिता मम वाससा ।
छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥

3329

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ॥

3330

अविज्ञातो धृतः खङ्गः शुभसंपत्तिनाशकः ।
विज्ञातः सकलैश्वर्यदायको भवति प्रभोः ।
तस्मात् तेषां गुणान् वक्ष्ये यथोक्तं मुनिपुंगवैः ॥

3331

अविज्ञानाद् राज्ञो भवति मतिहीनः परिजनस् ततस्तत्प्राधान्याद् भवति न समीपे बुधजनः ।
बुधैस्त्यक्ते राज्ये भवति हि न नीतिर्गुणवती प्रनष्टायां नीतौ सनृपमवशं नश्यति कुलम् ॥

3332

अविज्ञाय फलं यो हि कर्म त्वेवानुधावति ।
स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥

3333

अविज्ञायान्यसामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत् ।
उपहासमवाप्नोति तथैवायमिहाचलः ॥

3334

अवितथमनोरथपथ- प्रथनेषु प्रगुणगरिमगीतश्रीः ।
सुरतरुसदृशः स भवान् अभिलषणीयः क्षितीश्वर न कस्य ॥

3335

अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसंपदः ॥

3336

अविदग्धः पतिः स्त्रीणां प्रौढाणां नायको गुणी ।
गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ॥

3337

अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
अपमृत्युरुपक्रान्तः कामिव्याजेन मे रात्रौ ॥

3338

अविदितगुणान्तराणां नो दोषः प्राप्तदेशवासानाम् ।
स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥

3339

अविदितगुणापि सत्कवि- भणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥

3340

अविदितपरमानन्दो वदति जनो विषयमेव रमणीयम् ।
तिलतैलमेव मिष्टं येन न दृष्टं घृतं क्वापि ॥

3341

अविदितपरवेदनो मनोभूर् ध्रुवमयमेवमनङ्ग एव नित्यम् ।
यदि पुनरभविष्यदस्य चाङ्गं न खलु तदा व्यथयिष्यदन्यदेहम् ॥

3342

अविदितशषसविशेषा वाणी निःसरति वक्त्रतो येषाम् ।
गुदवदनविवरभेदो रदनैरनुमीयते तेषाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc