महासुभाषितसंग्रह · श्लोक 3303-3322
अवाकिरन् वयोवृद्धास् तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥
अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं पतेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥
अवाप सापत्रपतां स भूपतिर् जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥
अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥
अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि ।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥
अवाप्तैर्द्राघिम्णा परिचयमुदन्वत्तटभुवाम् असौ भाति श्यामद्युतिभिरुदकैर्मेखलभुवः ।
अगस्त्यस्याकार्षीद् वचनमिति कोपादुदधिना गृहीतः केशेषु प्रसभमिव विन्ध्यक्षितिधरः ॥
अवाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि विद्यते यः ।
यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥
अवाप्यान् कामयस्वार्थान् नानवाप्यान् कदाचन ।
प्रत्युत्पन्नाननुभवन् मा शुचस्त्वमनागतान् ॥
अवामभागेन यदा वलित्वा श्वा पृष्ठकण्डूतिमपाकरोति ।
तदह्नि तत्रैव कृतान्तगेहे रोगाभिभूतो नियतं प्रयाति ॥
अवालुकाश्लक्ष्णमृदा पूरिते गर्तशोधनम् ।
कोदण्डार्धमिते खाते जलसिक्ते वपेत्तरुम् ।
कदलीक्षीरिणौ रोप्यौ मूले दत्त्वा तु गोमयम् ॥
अवाहिता विनश्यन्ति सर्वकर्मक्षमा अपि ।
कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ॥
अविकारिणमपि सज्जनम् अनिशमनार्यः प्रबाधतेऽत्यर्थम् ।
कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥
अविकृतकृतभौमरवा सुस्थानस्था सुचेष्टिता वामे ।
यात्रासु दृष्टमात्रा दुर्गा दुर्गाणि तारयति ॥
अविक्रियां चैव समाश्रिताः समं हरन्ति जालं मम पक्षिणो ह्यमी ।
विवादमेष्यन्ति परस्परं यदा समागमिष्यन्ति च मद्वशं तदा ॥
अविक्रेयं लवणं पक्वमन्नं दधि क्षीरं मधु तैलं घृतं च ।
तिला मांसं मूलफलानि शाकं रक्तं वासः सर्वगन्धा गुडश्च ॥
अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।
तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥
अविचारयतो युक्तिकथनं तुषखण्डनम् ।
नीचेषूपकृतं राजन् बालुकास्विव मूत्रितम् ॥
अविचारेण यत् कर्म कृतं तन्मर्मकृन्तनम् ।
प्रसह्य सीताहरणाद् अतीता रावणश्रियः ॥
अविजित्य य आत्मानम् अमात्यान् विजिगीषते ।
अमित्रान् वाजितामात्यः सोऽवशः परिहीयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0