भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3283-3302

3283

अवश्यंभाविभावानां प्रतीकारो भवेद् यद ।
तदा दुःखैर्न बाध्यन्ते नलरामयुधिष्ठिराः ॥

3284

अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत् स्वममून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥

3285

अवश्यं लभते कर्ता फलं पापस्य कर्मणः ।
घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥

3286

अवश्यकारणैः प्राणान् धारयत्येव चातकः ।
प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते ॥

3287

अवश्यगत्वरैः प्राणैर् मृत्युकाले महात्मनाम् ।
परोपकारश्चेत् कश्चित् सिध्येत् तदमृतं मृतम् ॥

3288

अवश्यनिष्पत्तिमहाफलाढ्याम् अदीर्घसूत्रां परिणामकल्याम् ।
कामं व्ययायासकरीमुपेयान् न त्वेव जातु क्षयदोषयुक्ताम् ॥

3289

अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥

3290

अवश्यमायान्ति वशं विपश्चिताम् उपायसंदंशबलेन संपदः ।
भवत्युदारं विधिवत् प्रयोजिते फलं हि राज्ञां क्वचिदर्थसिद्धये ॥

3291

अवश्यमिन्द्रियैस्तात वर्तितव्यं स्वगोचरे ।
चण्डरागस्तु यस्तत्र तं बुधः परिवर्जयेत् ॥

3292

अवश्यमेव भोक्तव्यं कर्मणां त्वक्षयं फलम् ।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥

3293

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ॥

3294

अवश्यायकणैः प्राणान् संधारयति तित्तिरिः ।
याच्ञाभङ्गभयाद् भीतो न दैवमपि याचते ॥

3295

अवसरपठितं सर्वं सुभाषितत्वं प्रयाति यत् किंचित् ।
चाषः प्रयाणसमये खरनिनदो मङ्गलो भवति ॥

3296

अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि ।
क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ॥

3297

अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम् ।
रतिसमये रमणीनां भूषणहानिस्तु भूषणं भवति ॥

3298

अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसंपदोऽङ्गनासु ॥

3299

अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मरभासितम् ।
न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितम् ॥

3300

अवस्कन्दप्रदानस्य सर्वे कालाः प्रकीर्तिताः ।
व्यसने वर्तमानस्य शत्रोच्छिद्रान्वितस्य च ॥

3301

अवस्कन्दभयाद् राजा प्रजागरकृतश्रमम् ।
दिवासुप्तं सदा हन्यान् निद्राव्याकुलसैनिकम् ॥

3302

अवस्था पूज्यते राजन् न शरीरं शरीरिणाम् ।
तदा वनचरो राम इदानीं नृपतां गतः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc