महासुभाषितसंग्रह · श्लोक 3263-3282
अवमानहतं यच्च दत्तमश्रद्धया धनम् ।
ऊषरे निष्फलं बीजं क्षिप्तमक्षिप्तमेव तत् ॥
अवमानारणिमथितं दुर्वागिन्धनविवर्धितज्वालम् ।
सत्पुरुषाः कोपाग्निं ज्ञानाम्बुघटैः प्रशमयन्ति ॥
अवमानेन महतां प्रहर्षक्रोधविस्मयैः ।
तपांसि क्षयमायान्ति यशांसीव सुदुर्नयैः ॥
अवमुक्तमपक्रान्तमुख्यं तन्न क्षमं युधि ।
पितृपैतामहं मौलं तत् क्रुद्धं सान्त्वितं क्षमम् ॥
अवयः केवलकवयः कीराः स्युः केवलं धीराः ।
वीराः पण्डितकवयस् तानवमन्ता तु केवलं गवयः ॥
अवयवेषु परस्परबिंबितेष्व् अतुलनिर्मलकान्तिषु तत्तनोः ।
अयमयं प्रविभाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ॥
अवलम्बितविष्णुपदः कर्षितजनचक्षुरतुलगतिः ।
पत्रमयोऽपि पदार्थः पतङ्गतामेति गुणयोगात् ॥
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
तथैवापेतधर्मेषु न मैत्रीमाचरेद् बुधः ॥
अवलेपमनङ्गस्य वर्धयन्ति बलाहकाः ।
कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ॥
अवलोकनमपि सुखयति कुवलयदलचारुचपलनयनायाः ।
किं पुनरलकचलद्द्युति- सरभसमालिङ्गनं तन्व्याः ॥
अवलोकितमनुमोदित- मालिङ्गितमङ्गनाभिरनुरागैः ।
अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः ॥
अवलोक्य नर्तितशिखण्डिमण्डलैर् नवनीरदैर्निचुलितं नभस्तलम् ।
दिवसेऽपि वञ्जुलनिकुञ्जमित्वरी विशति स्म वल्लभवतंसितं रसात् ॥
अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।
निःश्वस्य रोदिति क्लिष्टा कुतो व्याधकटुम्बिनी ॥
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥
अवश्यं कोपाग्निस्तव सुतनु निर्वास्यति चिरात् स्वशोभामारूढं मुखमपि च ते हास्यति शुचम् ।
भवद्गोष्ठीशून्या मम तु दिवसा यान्ति य इमे न तेषामावृत्तिः पुनरपि मनो दूयत इति ॥
अवश्यं निधनं सर्वैर् गन्तव्यमिह मानवैः ।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥
अवश्यं पितुराचारं पुत्रः समनुवर्तते ।
नहि केतकवृक्षस्य भवत्यामलकीफलम् ॥
... ... ... ... ... ... ।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥
अवश्यं भाविनं नाशं भावित्वाद् विध्युपस्थितम् ।
अयमेव हि ते कालः पूर्वमासीदनागतः ॥
अवश्यं भाविनो भावा भवन्ति महातमपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0