भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3243-3262

3243

अवधीरणां कृतवती भवती मयि यत्कुकर्ममहिमा स हि मे ।
यदि चातको न लभतेऽम्बु घनाद् वचनीयता भवति काम्बुमुचः ॥

3244

अवधीरय धनविकलं कुरु गौरवमकृशसंपदः पुंसः ।
अस्मादृशं हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥

3245

अवधूतप्रणिपाताः पश्चात् संतप्यमानमनसोऽपि ।
निभृतैर्व्यपत्रपन्ते दयितानुनयैर्मनस्विन्यः ॥

3246

अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥

3247

अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः ।
चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥

3248

अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं तदा माम् अथ रामा विकसन्मुखी बभूव ॥

3249

अवध्यं वाथवागम्यम् अकृत्यं नास्ति किंचन ।
लोके बुद्धिमतामत्र तस्मात्तां योजयाम्यहम् ॥

3250

अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥

3251

अवध्यैरिन्दुपादानाम् असाध्यैश्चन्दनाम्भसाम् ।
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ॥

3252

अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
येषां चान्नानि भुक्तानि ये च स्युः शरणं गताः ॥

3253

अवध्यो ब्राह्मणो बालः स्त्री तपस्वी च रोगभाक् ।
विहिता व्यङ्गिता तेषाम् अपराधे गरीयसि ॥

3254

अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥

3255

अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः ।
मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥

3256

अवनम्य वक्षसि निमग्नकुच- द्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशना- कलकिंकिणीरवमुदासि वधूः ॥

3257

अवनौ शनैः शनैस्त्वं निदधासि पदद्वयं स्वस्य ।
लक्ष्यं पश्यसि न वदसि भजसि जलं बक ततोऽसि सितः ॥

3258

अवन्तिः काव्यमानर्च भर्चोर्मौखरिशेखरः (?) ।
शिष्यो बाणश्च संक्रान्तकान्तवेद्यवचाः कविः ॥

3259

अवन्तिनाथोऽयमुदग्रबाहुर् विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजास् त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥

3260

अवन्ति ये जनकसमा मुनीश्वराश् चतुर्विधं गणमनवद्यवृत्तयः ।
स्वदेहवद्दलितमदाष्टकारयो भवन्तु ते मम गुरवो भवान्तकाः ॥

3261

अवन्ध्यं दिवसं कुर्याद् धर्मतः कामतोऽर्थतः ।
गते हि दिवसे तस्मिंस् तदूनं तस्य जीवितम् ॥

3262

अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc