महासुभाषितसंग्रह · श्लोक 3223-3242
अवचितकुसुमा विहाय वल्लीर् युवतिषु कोमलमाल्यमालिनीषु ।
पदमुपदधिरे कुलान्यलीनां नपरिचयो मलिनात्मनां प्रधानम् ॥
अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री ।
गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥
अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥
अवज्ञया दीयते यत् तथैवाश्रद्धयापि च ।
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥
अवज्ञया न दातव्यं कस्य चिल्लीलयापि वा ।
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ॥
अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम् ॥
अवज्ञातोऽपि दुष्टेन गुणो दोषो न मन्यते ।
नहि चम्पकसौगन्ध्यं पूतिर्भृङ्गावहेलया ॥
अवज्ञानसहस्रैस्तु दोषाः कष्टतरा धने ।
धने सुखकला या च सापि दुःखैर्विधीयते ॥
अवज्ञास्फुटितं प्रेम समीकर्तुं क ईश्वरः ।
संधिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम् ॥
अवतारा ह्यसंखेया हरेः सत्त्वनिधेर्द्विजाः ।
यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः ॥
अवति निखिललोकं यः पितेवादृतात्मा दहति दुरितराशिं पावको वेन्धनौकम् ।
वितरति शिवसौख्यं हन्ति संसारशत्रुं विदधतु शुभबुद्ध्या तं बुधा धर्ममत्र ॥
अवतु वः सवितुस्तुरगावली स्फुरति मध्यगतारुणनायका ।
समभिलम्भिततुङ्गपयोधरा मरकतैकलतेव नभःश्रियः ॥
अवद्यजम्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम् ।
कवीन्द्रवाङ्निर्जरनिर्झरिण्यां संजायते व्यर्थमनोरथत्वम् ॥
अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः ।
स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥
अवधानेन मौनेन काषायेण जटाजिनैः ।
विश्वासयित्वा द्वेष्टारम् अवलुम्पेद् यथा वृकः ॥
अवधारय धर्मेषु प्रधानमवधानतः ।
निर्भरानन्दकन्दाय गोविन्दाय मनोऽर्पय ॥
अवधार्य कार्यगुरुतामभवन् न भयाय सान्द्रतमसंतमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥
अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।
दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥
अवधिदिवसः प्राप्तश्चायं तनोर्विरहस्य वा रविरयमुपैत्यस्तं सख्यो ममापि च जीवितम् ।
तदलमफलैराशाबन्धैः प्रसीद नमोऽस्तु ते हृदय सहसा पाकोत्पीडं विडम्बय दाडिमम् ॥
अवधिदिवसः सोऽयं नात्रागतः किमियत् क्षणं वितर नयने पश्यैतन्मे पुरः सखि साहसम् ।
इयमियमहं रूढज्वालाकरालितरोदसीं मलयजरसाभ्यक्तैरङ्गैः पताम्यभि कौमुदीम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0