महासुभाषितसंग्रह · श्लोक 3203-3222
अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर् द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।
हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥
अल्पीयसामेव निवासभूमि- त्यागाद्विपत्तिर्महतां न जातु ।
रत्नाकरात् सन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः ॥
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत् ।
ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ वार्धिम् ॥
अल्पेच्छुर्धृतिमान् प्राज्ञश् छायेवानुगतः सदा ।
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥
अल्पेन विभवेनैव व्ययाधिक्यं न युक्तितः ।
क्षीणेन वाससाच्छन्ने पादविस्तारणं यथा ॥
अल्पेनापि सुरक्तेन साधनेन प्रयोजनम् ।
ओष्ठद्वयसहायेन कान्तास्येन जगज्जितम् ॥
अल्पेनैव गुणेन हि कश्चिल्लोके प्रसिद्धिमुपयाति ।
एकेन करेण गजः करी न सूर्यः सहस्रेण ॥
अल्पेऽपि नृपतिदत्ते प्रतिश्रुते वापि दातुमेतेन ।
उत्थायाशीर्देया क्वचिदुपविश्यापि परिषदौचित्यात् ॥
अल्पेऽप्यपकृते मोहान् न शान्तिमुपगच्छति ।
तादृशैः संगतं नीचैर् नृशंसैरकृतात्मभिः ।
निशाम्य निपुणं बुद्ध्या विद्वान् दूराद् विवर्जयेत् ॥
अल्पे वयसि हे बाले कुचयोः पतनः कुतः ।
अधस्तात् खनने मूढ गिरयो न पतन्ति किम् ॥
अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः ।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ॥
अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः ।
अधनी हि धनं प्राप्य तृणवन्मन्यते जगत् ॥
अवकाशः सुवृत्तानां हृदयान्तर्न योषिताम् ।
इतीव विहितौ धात्रा सुवृत्तौ तद्बहिः कुचौ ॥
अवकेशिनोऽस्य युक्तं जानामि तरोरशोक इति नाम ।
फलपाकविधुरितात्मा यतोऽन्यथासौ सशोकः स्यात् ॥
अवक्रस्तारकाधीशः परिपूर्णप्रियोदयः ।
प्राचीं दिशमतिक्रम्य पतनं प्रतिपद्यते ॥
अवक्रे मांसहीने च वाजिजङ्घे सुशोभने ।
कूर्चं समं सुसंधि स्याद् ग्रन्थिव्रणविवार्जितम् ॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥
अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकरस् तनुतां दुःखमनङ्ग मोक्ष्यति ॥
अवचनं वचनं प्रियसंनिधाव् अनवलोकनमेव विलोकनम् ।
अवयवावरणं च यदञ्चल- व्यतिकरेण तदङ्गसमर्पणम् ॥
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0