महासुभाषितसंग्रह · श्लोक 3183-3202
अलुब्धैः सह सौहार्दं पण्डितैः सह संकथा ।
उत्तमैः सह सङ्गश्च विधेयाः सुखमिच्छता ॥
अलोभः परमं वित्तम् अहिंसा परमं तपः ।
अमाया परमा विद्या निरवद्या मनीषिणाम् ॥
अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद् दिनानि ।
जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥
अलौकिकमहालोकप्रकाशितजगत्त्रयः ।
स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥
अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥
अल्पं किंचिच्छ्रियं प्राप्य नीचो गर्वायते लघु ।
पद्मपत्रतले भेको मन्यते दण्डधारिणम् ॥
अल्पं दर्पबलं दैत्य स्थिरमक्रोधज बलम् ।
हतस्त्वं दर्पजैर्दोषैर् हित्वा यो भाषसे क्षमाम् ॥
अल्पं निर्मितमाकाशम् अनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्याः स्तनजृम्भनम् ॥
अल्पतोऽधिकतः साध्यं लघुनैव प्रसाधयेत् ।
भूप्रदक्षिणतोऽहल्यां गौतमः कपिलां भ्रमन् ॥
अल्पतोयश्चलत्कुम्भो ह्यल्पदुग्धाश्च धेनवः ।
अल्पविद्यो महागर्वी कुरूपी बहुचेष्टितः ॥
अल्पप्रभोस्तु सेवायां भुक्तिमात्रं प्रयोजनम् ।
अनुग्रहमजामूल्यं निग्रहं प्राणसंकटम् ॥
अल्पमप्यवमन्येत न शत्रुर्बलदर्पितः ।
रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥
अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।
सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥
अल्पसारोऽपि यो मोहाद् विस्तारं कर्तुमिच्छति ।
पश्चाच्छोचति दुर्बुद्धिर् नालिकेरबको यथा ॥
अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
बहुवचनमल्पसारं यः कथयति विप्रलापी सः ॥
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिनः ॥
अल्पापकारमपि पार्श्वगतं निहन्ति नीचो न दूरमसमागसमप्यरातिम् ।
श्वा निर्दशत्युपलमन्तिकमापतन्तं तत्त्यागिनं न तु विदूरगमुग्ररोषः ॥
अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥
अल्पाश्च गुणाः स्फीता भवन्ति गुणसमुदितेषु पुरुषेषु ।
श्वेतगिरिशिखरकेष्विव निशासु चन्द्रांशवः पतिताः ॥
अल्पाश्रयं समासाद्य महानप्यल्पको भवेत् ।
गजेन्द्रः पर्वताकारो यथा दर्पणमाश्रितः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0