भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3163-3182

3163

अलसारुणलोचनारविन्दां परिभोगोचितधूसरैकचेलाम् ।
शिथिलाकुलवेणिबन्धरम्याम् अबलामन्तिकशायिनीं दिदृक्षे ॥

3164

अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान् प्रति प्रतिययुः शनैः शनैः ।
अलघुप्रसारितविलोचनाञ्जलि- द्रुतपीतमाधवरसौघनिर्भरैः ॥

3165

अलसो मन्दबुद्धिश्च सुखी च व्याधिपीडितः ।
निद्रालुः कामुकश्चैव षडेते शास्त्रवर्जिताः ॥

3166

अलाबुं वर्तुलाकारं वार्ताकं कुन्दसंनिभम् ।
प्राणान्तेऽपि न चाश्नीयान् मसूरान्नं सवल्कलम् ॥

3167

अलाबुबीजं त्रपुसस्य बीजं तस्यैव तोयेन च तन्निषिक्तम् ।
आलेपनाद्यैर्विधिवत् प्रयुक्तं हन्याद्विषं तक्षकसंभवं च ॥

3168

अलाभात् पुरुषाणां हि भयात् परिजनस्य च ।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥

3169

अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी ।
किशलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥

3170

अलिनीलालकलतं कं न हन्ति घनस्तनि ।
आननं नलिनच्छायनयनं शशिकान्ति ते ॥

3171

अलिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीम् ।
मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥

3172

अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥

3173

अलियुवा विललास चिराय यस् त्रिदशशैवलिनीकमलोदरे ।
विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥

3174

अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम् ।
निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥

3175

अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः ।
विधिवशात् परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥

3176

अलिर्मृगो वा नेत्रं वा यत्र किंचिद् विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥

3177

अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते ।
भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥

3178

अलीक एव त्वद्भावो मद्भावोऽलीक एव च ।
अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥

3179

अलीकरूपो यदि मध्यभागः पयोधराकारभृतश्च केशाः ।
उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य शोभां कलयेन्न कस्मात् ॥

3180

अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद् उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः ।
अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर्गौराङ्ग्या गलितमृगज्ञक्ष्मा विजयते ॥

3181

अलीनां मालाभिर्विरचितजटाभारमहिमा परागैः पुष्पाणामुपरचितभस्मव्यतिकरः ।
वनानामाभोगे कुसुमवति पुष्पोच्चयपरो मरुन् मन्दं मन्दं विचरति परिव्राजक इव ॥

3182

अलुप्तसत्त्वकोशानां महत्त्वं महतां हि किम् ।
आकर्णितां परस्यार्तिं न चेच्छिन्दन्ति तत्क्षणम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc