भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3083-3102

3083

अलंकर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः ।
कराब्जव्यापारानतिसुकृतसारान् रसयतो जनुः सर्वश्लाघ्यं जयति ललितोत्तंस भवतः ॥

3084

अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर् विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥

3085

अलंकारप्रियो विष्णुर् जलधाराप्रियः शिवः ।
नमस्कारप्रियो भानुर् ब्राह्मणो भोजनप्रियः ॥

3086

अलंकारभृतो रीतिमन्तः सिद्धा रसोन्नतौ ।
लक्षणैर्लक्षितात्मानः कृतिनो ननु केचन ॥

3087

अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः ॥

3088

यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः ॥

3089

क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ॥

3090

अलंकृतः काञ्चनकोटिमूल्यैर् महार्हरत्नैर्गजवाजिवाहैः ।
निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥

3091

अलंक्रियन्ते शिखिनः केकया मदरक्तया ।
वाचा विपश्चितोऽत्यर्थं माधुर्यगुणयुक्तया ॥

3092

अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलशक्तिरग्र्या ।
व्यापाददावानलवारिधारा प्रत्येह च क्षान्तिरनर्थशान्तिः ॥

3093

अलं त्रिदिववार्तया किमिति सार्वभौमश्रिया विदूरतरवर्तिनी भवतु मोक्षलक्ष्मीरपि ।
कलिन्दगिरिनन्दिनीतटनिकुञ्जपुञ्जोदरे मनो हरति केवलं नवतमालनीलं महः ॥

3094

अलं नलं रोद्धुममी किलाभवन् गुणा विवेकप्रमुखा न चापलम् ।
स्मरः स रत्यामनिरुद्धमेव यत् सृजत्ययं सर्गनिसर्ग ईदृशः ॥

3095

अलं परिग्रहेणेह दोषवान् हि परिग्रहः ।
कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥

3096

अलं वा बहु यो ब्रूते हितवाक्यावमानिनः ।
स तस्माल्लभते दोषं कपेः सूचीमुखो यथा ॥

3097

अलं वा बहुवादेन यत्र यत्रानुरज्यसे ।
तत्र तत्रैव ते दुःखदावपावकपङ्क्तयः ॥

3098

अलं विलङ्घ्य प्रियविज्ञ याच्ञां कृत्वापि वाम्यं विविधं विधेये ।
यशःपथादाश्रवतापदोत्थात् खलु स्खलित्वास्तखलोक्तिखेलात् ॥

3099

अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः ।
गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमर्तिः ॥

3100

अलं विवादेन यथा श्रुतं त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥

3101

अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले ।
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥

3102

न पुनर्जीवितः कश्चित् कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc