भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3063-3082

3063

अर्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः ।
ततो हस्तेन हीनश्च हीन एव स्मृतो हयः ॥

3064

अर्धाङ्गनापुंवपुषः पुरारेर् मूर्त्तिः श्रियं नौरिव वस्तनोतु ।
प्रेमातिभारादपरं यदर्धं ममज्ज शृङ्गाररसाम्बुराशौ ॥

3065

अर्धाङ्गाहितपौर्वकीर्तिवनितादीव्यत्सितांशुप्रभं कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजम् ।
विश्वव्याप्यविनाशि शंकरपदं यायात्त्वदीयं यशो न स्यादस्य यदि क्षितीश भवतो दानादिकेभ्यो जनिः ॥

3066

अर्धाङ्गुलपरीणाहजिह्वाग्रायासभीरवः ।
सर्वाङ्गक्लेशजननम् अबुधाः कर्म कुर्वते ॥

3067

अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद् रशना तदानीम् अङ्गुष्ठमूलार्पितसूत्रशेषा ॥

3068

अर्धाधीताश्च यैर्वेदास् तथा शूद्रान्नभोजनाः ।
ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः ॥

3069

अर्धासने समधिरोप्य सुरद्विपस्य शक्रोऽपि यद्युधि शचीं कवचीकरोति ।
धीरस्य तस्य सहते दशकन्धरस्य कः साहसैकरसिकः करवालधाराम् ॥

3070

अर्धेन जलदश्यामम् अर्धेनातपपिङ्गलम् ।
अर्धनारीश्वराकारं न को मन्येत वासरम् ॥

3071

अर्धोक्ते भयमागतोऽसि किमिदं कण्ठश्च किं गद्गदश् चाटोरस्य न च क्षणोऽयमनुपक्षिप्तेयमास्तां कथा ।
ब्रूहि प्रस्तुतमस्तु संप्रति महत् कर्णे सखीनां मुखैस् तृप्तिर्निर्भरमेभिरक्षरपदैः प्रागेव मे संभृता ॥

3072

अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।
पिबति निदाघज्वरिता घनधारां करपुटेनैव ॥

3073

अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं सद्यः प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः ।
मात्रा चाङ्गुलिलालितस्य वदने स्मेरायमाने मुहुर् विष्णोः क्षीरकणोरुधामधवला दन्तद्युतिः पातु वः ॥

3074

अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला ।
निक्षिपति कमलमालाः कोमलमिव कर्तुमध्वानम् ॥

3075

अर्पयन्त्यर्थिने प्राणान् न प्रणाममरातये ।
न नास्तीत्युत्तरं जातु सुहृदे सुमनोजनाः ॥

3076

अर्पितं रसितवत्यपि नाम- ग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥

3077

अर्पिताः प्रथमतस्त्वयि गावो गोपशावक इति प्रणयेन ।
दीयते पुनरिदं धनहीनैर् वेतनं गरुडकेतन चेतः ॥

3078

अर्वागभ्येत्य गर्वादिव सरिदवरा सेयमित्युद्दिधीर्षाः कालिन्दीं कोपवेगाकलितहलहठोत्क्षेपिणः क्षेमहेतुः ।
तालाङ्कस्याशु दालारसविवशहृदः स्रंसदंसोत्तरीयं तिर्यग्व्यस्ताड्घ्रि भूयः सुवलनमथ लघूत्थानमाधावनं तत् ॥

3079

अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो गम्भीरं कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते ।
व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥

3080

अर्वाञ्चत्पञ्चशाखः स्फुरदुपरिजटामण्डलः संश्रितानां नित्यापर्णोऽपि तापत्रितयमपनयन् स्थाणुरव्यादपूर्वः ।
यः प्रोन्मीलत्कपर्दैः शिरसि विरचिताबालबन्धे द्युसिन्धोः पाथोभिर्लब्धसेकः फलति फलशतं वाञ्छितं भक्तिभाजाम् ॥

3081

अलंकरोति यः श्लोकं शुक एव न मध्यमः ।
अलं करोति यः श्लोकं शुक एव नमध्यमः ॥

3082

अलंकरोति हि जरा राजामात्यभिषग्यतीन् ।
विडम्बयति पण्यस्त्रीमल्लगायनसेवकान् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc