महासुभाषितसंग्रह · श्लोक 3043-3062
अर्धं नीत्वा निशायाः सरभससुरतायाससंश्लेषयोगैः प्रोद्भूतासह्यतृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दभाग्यः ॥
अर्धं प्रेमनिबद्धमर्धमपरं लज्जाश्रितं मानसं एवं नेत्रसरोरुहं प्रियमुखे चान्यद् गवाक्षेऽर्पितम् ।
पर्यङ्के पदमेकमेव धरणौ पृष्ठे च कृत्वापरं स्थातुं गन्तुमपि प्रभातसमये शक्नोति नैवाबला ॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा ।
भार्या मूलं त्रिवर्गस्य भार्या मित्रं मरिष्यतः ॥
अर्धं सज्जनसंपर्काद् अविद्याया विनश्यति ।
चतुर्भागस्तु शास्त्रार्थैश् चतुर्भागं स्वयत्नतः ॥
अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मिन्न् अर्धं पुमांस इति दर्शयितुं भवत्या ।
स्त्रीपुंसलक्षणमिदं वपुरादृतं यत् तेनासि देवि विदिता त्रिजगच्छरीरा ॥
अर्धचन्द्रं च चक्रं च शकटं मकरं तथा ।
कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥
अर्धचन्द्रवदाकारं स्त्रीनामार्थं च त्र्यक्षरम् ।
नकारादि रिकारान्तं यो जानाति स पण्डितः ॥
अर्धचन्द्रसमायुक्तं पुंनाम चतुरक्षरम् ।
ककारादि लकारान्तम् इह जानाति पण्डितः ॥
अर्धचन्द्राकृतिर्यस्मिन् खङ्गे स्वाभाविकी भवेत् ।
अपि दोषसहस्राणि हन्ति चन्द्रस्तमो यथा ॥
अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम् ।
तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ॥
अर्धपीतमदिरा मणिपारी शोभतां कथमतीव तरुण्याः ।
चुम्बितैरधिकपाटलभासा पूरिताधरमयूखभरेण ॥
अर्धपीतस्तनं मातुर् आमर्दाक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥
अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः ।
मृद्भवति तत्र नीला दीर्घं कालं च बहुतोयम् ॥
अर्धप्रोथस्थिता रेखा दृश्यन्ते यस्य वाजिनः ।
तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम् ॥
अर्धप्लुष्टं बहुभ्यः शवपिशितमुपाहृत्य हृष्टश्चिताभ्यो जातग्रासातिरेकः स्फुटतरधमनीनद्धशुष्कार्द्रकायः ।
प्रेतः संतर्ज्य दृष्ट्या कुटिलपरुषया मज्जनिष्कर्षशुष्कैर् आहन्त्याहारलुब्धान्मुहुरभिपततो जम्बुकानस्थिखण्डैः ॥
अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।
यन्मुहूर्तमवहन्न तत्पुनस् तृप्तिरास्त दयितस्य पश्यतः ॥
तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।
तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाति चापलम् ॥
अर्धरात्रे दिनस्यार्धे त्वर्धचन्द्रेऽर्धभास्करे ।
रावणेन हृता सीता कृष्णपक्षे सिताष्टमी ॥
अर्धसिद्धेषु कार्येषु आत्मगुह्यं प्रकाशयेत् ।
स एव निधनं याति बकः कर्कटकाद्यथा ॥
अर्धस्मितेन विनिमन्त्र्य दशार्धबाणम् अर्धं विधूय वसनाञ्चलमर्धमार्गे ।
अर्धेन नेत्रविशिखेन निवृत्य सार्धम् अर्धार्धमेव तरुणी तरुणं चकार ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0