भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2923-2942

2923

अर्थप्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति ।
उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य चाधमधियामन्योन्यहेतुः पणः ॥

2924

अर्थप्रियतयात्मानम् अप्रियाय ददाति या ।
कामात्मन्यपि निःस्नेहां कोऽनुरक्तेति मन्यते ॥

2925

अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥

2926

अर्थयुक्तस्य करणम् अनर्थस्य च वर्जनम् ।
न्यायतश्च करादानं स्वयं च प्रतिमोक्षणम् ॥

2927

अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम् ।
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ॥

2928

अर्थयेदेव मित्राणि सति वासति वा धने ।
नानर्थयन् विजानाति मित्राणां सारफल्गुताम् ॥

2929

अर्थरक्षापरो भृत्यः कृत्याकृत्यविवेकवित् ।
सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥

2930

अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः ।
आगेमेष्वपि चेदेवम् अद्भुतं किं शरीरिषु ॥

2931

अर्थवानर्थमर्थिभ्यो न ददात्यत्र को गुणः ।
एकैव गतिरर्थस्य दानमन्या विपत्तयः ॥

2932

अर्थवानेव लोकेऽस्मिन् पूज्यते मित्रबान्धवैः ।
अर्थहीनस्तु पुरुषो जीवन्नपि मृतोपमः ॥

2933

अर्थवान् दुष्कुलीनोऽपि लोके पूज्यतमो नरः ।
शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते ॥

2934

अर्थश्चेत् सर्वथा रक्ष्य इति कैश्चिदुदाहृतम् ।
तत्कथं न हरिश्चन्द्रोऽरक्षत् कुशिकनन्दने ॥

2935

धर्मस्तु रक्षितः सर्वैर् अपि देहव्ययेन च ।
शिबिप्रभृतिभूपालैर् दधीचिप्रमुखैर्द्विजैः ॥

2936

अर्थसंपद्विमोहाय बहुशोकाय चैव हि ।
तस्मादर्थमनर्थक्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥

2937

अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥

2938

अर्थसिद्धिं परामिच्छन् धर्ममेवादितश्चरेत् ।
नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥

2939

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥

2940

अर्थस्य पुरुषो दासः स च जातु न कस्यचित् ।
यदर्जनपरा लोके सर्वेऽपि भुवनत्रये ॥

2941

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥

2942

अर्थस्य मूलं प्रकृतिर्नयश्च धर्मस्य कारुण्यमकैतवं च ।
कामस्य वित्तं च वपुर्वयश्च मोक्षस्य सर्वार्थनिवृत्तिरेव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc