महासुभाषितसंग्रह · श्लोक 2903-2922
परस्य नु गृहे भोक्तुः परिभूतस्य नित्यशः ।
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥
अर्जुनः कृष्णसंयुक्तः कर्णं यत्रानुधावति ।
तन्नेत्रं तु कुरुक्षेत्रम् इति मुग्धे मृशामहे ॥
अर्जुनः फल्गुनः पार्थः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
सीदन्ति मम गात्राणि माघमा सेगवा इव ॥
अर्जुनस्य प्रतिज्ञे द्वे न दैन्यं न पलायनम् ।
आयू रक्षति मर्माणि आयुरन्नं प्रयच्छति ॥
अर्जुनान्ते वरारोहे भीमान्ते च वरानने ।
पाण्डवैः सह योद्धव्यं रक्षणीयो धनंजयः ॥
अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्जनादिभिः ।
मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा ॥
अर्थं धिगस्तु बहुवैरिकरं नराणां राज्यं धिगस्तु भयदं बहु चिन्तनीयम् ।
स्वर्गं धिगस्तु पुनरागमनप्रवृत्तिं धिग् धिक् शरीरमपि रोगसमाश्रयं च ॥
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥
अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव ।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥
अर्थः कामो धर्मो मोक्षः सर्वे भवन्ति पुरुषस्य ।
तावद्यावत् पीडां जाठरवह्निर्न विदधाति ॥
अर्थः सुखं कीर्तिरपीह मा भूद् अनर्थ एवास्तु तथापि धीराः ।
निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्मसमारभन्ते ॥
अर्थ एव हि केषांचिद् अनर्थो भविता नृणाम् ।
अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥
अर्थग्रहणे न तथा दुनोति कटुकूजितैर्यथा पिशुनः ।
रुधिरादानादधिकं दुनोति कर्णे क्वणन् मशकः ॥
अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
मुक्तसङ्गस्ततो भूयान् अदोग्धा धर्ममात्मनः ॥
अर्थत्यागो हि कार्यः स्याद् अर्थं श्रेयांसमिच्छता ।
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥
अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।
एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥
अर्थपतौ भूमिपतौ बाले वृद्धे तपोऽधिके विदुषि ।
योषिति मूर्खे गुरुषु च विदुषा नैवोत्तरं देयम् ॥
अर्थप्रश्नकृतौ लोके सुलभौ तौ गृहे गृहे ।
दाता चोत्तरदश्चैव दुर्लभौ पुरुषौ भुवि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0