भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2883-2902

2883

अरे रामाहस्ताभरण भसलश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन ।
सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदन ॥

2884

अरे वद हरेर्नाम क्षेमधाम क्षणे क्षणे ।
बहिः सरति निःश्वासे विश्वासः कः प्रवर्तते ॥

2885

अरैः संधार्यते नाभिर् नाभौ चाराः प्रतिष्ठिताः ।
स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥

2886

अरोदि मधुपैर्भृशं कमलमालया मीलितं व्यकम्पि जलवीचिभिर्विदलितं मुखं कैरवैः ।
विलोक्य रजनौ ह्रदे विरहिकोकशोकं घनं परव्यसनकातराः किमिव कुर्वते साधवः ॥

2887

अर्ककर्पासयोर्मूलं जलपीतं जयेद्विषम् ।
पटोलमूलनस्येन कालदष्टोऽपि जीवति ॥

2888

अर्कच्छायं तिरयति सुधालिप्तविद्युन्मतल्ली चक्रप्रख्यं महति सुषमामण्डले दूरमग्नम् ।
रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित् तरलनयना देवतेव स्मरस्य ॥

2889

अर्काः किं फलसंचयेन भवतां किं वः प्रसूनैर्नवैः किं वा भूरिलताचयेन महता गोत्रेण किं भूयसा ।
येषामेकतमो बभूव स पुनर्नैवास्ति कश्चित् कुले छायायामुपविश्य यस्य पथिकास्तृप्तिं फलैः कुर्वते ॥

2890

अर्काः केचन केचिदक्षतरवः केचिद्दलक्ष्मारुहाः निम्बाः केचन केचिदत्र विपिने क्रूराः करीरद्रुमाः ।
माकन्दो मकरन्दतुन्दिलमिलद्भृङ्गालिशृङ्गारितः कोऽप्यत्रास्ति न मित्र यत्र तनुते कर्णामृतं कोकिलः ॥

2891

अर्काभिमुख्यसलिलस्थितिसाधनानि रक्ताम्बुजस्य फलितान्यधुना तपांसि ।
यद्भीरु तस्य परिभूतिकरं पदं त्वं लाक्षारसान्तरितरागमिदं करोषि ॥

2892

अर्घायाम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास् तारा बिल्वदलं नभःसुरधुनी धूपः प्रदीपो रविः ।
खेटाः पञ्चफलानि किं च ककुभस्ताम्बूलमारात्रिकं मेरुः श्रीजगतीपते तव यशोयोगेश्वरस्यार्चने ॥

2893

अर्घ्यं दत्त्वाथ देवाय भास्कराय समाहितः ।
ततोऽलंकृतगात्रः सन् वृत्तमालोक्य मन्त्रवत् ॥

2894

अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥

2895

अर्चकस्य तपोयोगाद् अर्चनस्यातिशायनात् ।
आभिरूप्याच्च मूर्तीनां देवः सांनिध्यमृच्छति ॥

2896

अर्चामः सततं गणाधिपमथाप्याखून् निहन्मः शतं ध्यायामो हृदि भैरवं तदपि तु प्रोत्सारयामः शुनः ।
भूतेशं प्रणुमस्तथापि शतशो भूतान् निगृह्णीमहे नह्येकस्य गुणः परस्य महतो दोषानपि प्रोर्णुते ॥

2897

अर्चामीति धिया यदेव कुसुमं क्षिप्त्वा जनो मुच्यते विध्यामीति धिया तदेव विकिरन् भस्मीकृतो मन्मथः ।
इत्याभ्यन्तरवृत्तिमात्ररसिको बाह्यानपेक्षश्च यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥

2898

अर्चिर्मालाकरालाद्दिवमभिलिहतो दाववह्नेरदूराद् उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः ।
अग्रेऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपममी निष्ठुराः स्वस्थलीषु ॥

2899

अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कणो वासुकेस् तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षडिति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥

2900

अर्च्ये विष्णौ शिलाधीर्गुरुषु नरमतिर्वैष्णवे जातिबुद्धिर् विष्णोर्वा वैष्णवानां कलिमलमथने पादतीर्थेऽम्बुबुद्धिः ।
श्रीविष्णोर्नाम्नि मन्त्रे सकलकलुषहे शब्दसामान्यबुद्धिर् विष्णौ सर्वेश्वरेशे तदितरसमधीर्यस्य वा नारकी सः ॥

2901

अर्जयेज्ज्ञानमर्थांश्च पुमानमरवत् सदा ।
केशेष्विव गृहीतः सन् मृत्युना धर्ममाचरेत् ॥

2902

अर्जितं स्वेन वीर्येण नान्यमाश्रित्य कंचन ।
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc