महासुभाषितसंग्रह · श्लोक 2803-2822
अये नीलग्रीव क्व कथय सखे तेऽद्य मुनयः परं तोषं येषां तव वरविलासो वितनुते ।
अमी दूरात् क्रूराः क्वणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः ॥
अये नृपतिमण्डलीमुकुटरत्न युष्मद्भुजा- महोष्मततिसंजुषा बत भवत्प्रतापार्चिषा ।
द्विषामतिभृशं यशः प्रकटपारदो ध्मापनाद् उदुस्फुटत तारकाः कपटतो विहायस्तटे ॥
अये पाथोवाह स्थगय ककुभोऽन्यास्तत इतस् त्यजैतां सीमानं वसति मुनिरस्यां कलशभूः ।
उदञ्चत्कोपेऽस्मिन् स जलधिरपि स्थास्यति न ते यतः पायं पायं सलिलमिह शौर्यं प्रथयसि ॥
अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः ।
इयं पुरत एव ते सरसपुष्पमासोदये रसालनवमञ्जरी मधुझरी जरीजृम्भते ॥
अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्मिता ॥
अये मातर्दृष्ट्वा मुखममृतभानुभ्रमवशात् कचच्छद्मा राहुर्वसति किमु तृष्णातरलितः ।
किमेवं कन्दर्पान्तकतरुणि सिन्दूरसरणिच्- छलाद्भोक्तुं भूयो बहिरिव रसज्ञां कलयति ॥
अये मातस्तातः क्व गत इति यद्वैरिशिशुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी ।
करेणास्यं तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिःश्वस्य स्फारं शिव शिव दृशैवोत्तरयति ॥
अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान् ।
किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥
अये यदि समीहसे परपुरावरोधं प्रभो तदाकलय मद्वचः किमपि दर्पनारायण ।
प्रतीपनृपनागरीनयननीरकल्लोलिनी- समुत्तरणचातुरीं तुरगराजिमध्यापय ॥
अये लाजा उच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात् सुपिहितवती दीनवदना ।
मयि क्षीणोपाये यदकृत दृशावश्रुबहुले तदन्तःशल्यं मे त्वमसि पुनरुद्धर्तुमुचितः ॥
अये वापीहंसा निजवसतिसंकोचपिशुनं कुरुध्वं मा चेतो वियति चलतो वीक्ष्य विहगान् ।
अमी ते सारङ्गा भुवनमहनीयव्रतभृतां निरीहाणांयेषां तृणमिव भवन्त्यम्बुनिधयः ॥
अये वारां राशे कतिपयपयोबिन्दुविभवैर् अमीभिर्मा गर्वं वह निरवलेपा हि कृतिनः ।
न किं लोपामुद्रासहचरकरक्रोडकुहरे भवान् दृष्टः कष्टं प्रचलजलजन्तुव्यतिकरः ॥
अये वारां राशे कुलिशकरकोपप्रतिभयाद् अयं पक्षप्रेम्णा गिरिपतिसुतस्त्वामुपगतः ।
त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥
अये सुधाकैरविणि व्यधायि मुधा सुधाधामनि बन्धुभावः ।
जनापवादः परितः प्रयातः समागमो हन्त न जातु जातः ॥
अयेऽस्तमयते शशी नहि कृशीभवत्याग्रहो विनश्यति तमो हठं किमणुमप्यपास्ते मनः ।
सखि प्रकटितोऽरुणो न करुणोदयस्ते मनाक् प्रयाति खलु यामिनी न विमनीकृथा नायकम् ॥
अये स्वर्गः स्वर्गः कतिदिवसमार्गः प्रवसतां पुरस्तुङ्गौ स्यातां यदि न कुचकुम्भौ मृगदृशः ।
अयाचं पाथेयं सुलभ[मुभयं] मूलफलयोः पयः स्थाने स्थाने पथि पथि च विश्रामतरवः ॥
अये हेलावेलातुलितकुलशैले जलनिधौ कुतो वारामोघं बत जलद मोघं वितरसि ।
समन्तादुत्तालज्वलदनलकीलाकवलन- क्लमोपेतानेतानुपचर पयोभिर्विटपिनः ॥
अयोगजामन्वभवं न वेदनां हिताय मेऽभूदियमुन्मदिष्णुता ।
उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः ॥
अयोग्यवस्तुभरणात् भजेद्योग्योऽपि दुष्टताम् ।
रक्षणायेन्द्रदत्तासिं वहन् व्याधोऽभवन्मुनिः ॥
अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम् ।
पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0