महासुभाषितसंग्रह · श्लोक 2783-2802
अयि हारलते संहर हरहुंकृतिदग्धदेहसंक्षोभम् ।
सद्भावजानुरक्तिर् नहि रम्या पण्यनारीणाम् ॥
अयि हृदय दयां मयि कुरु कुरङ्गनयनां विना बधान धृतिम् ।
टसदिति झटिति स्फुट वा स्फुटमिदमुक्तं गतिर्नान्या ॥
अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते ।
नग्ना विक्षिप्य गात्राणि सज्जरा इव मद्यपाः ॥
अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना स्तुयादेतन्नित्यं जडमपि गुरुं तस्य विनुयात् ।
विवत्सुर्नैःस्पृह्यं कथमपि सभायामभिनयेत् स्वकार्यं संतुष्टे क्षितिभृति रहस्येव कथयेत् ॥
अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।
अमृतं राहवे मृत्युर् विषं शंकरभूषणम् ॥
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥
अयुक्तचारं दुर्दर्शम् अस्वाधीनं नराधिपम् ।
वर्जयन्ति नरा दूरान् नदीपङ्कमिव द्विपाः ॥
अयुक्तरूपं किमतःपरं भवेत् त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥
अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
क्रीणन्ति न बिल्वदलैः कैवल्यं पच्चषैर्मूढाः ॥
अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः ।
दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥
अये कीरश्रेणीपरिवृढ वृथा वासरशतं तरोरस्य स्कन्धे गमयति फलाशारभसतः ।
यदा पुष्पारम्भे मुखमलिनिमा किंशुकतरोस् तदैवाभिज्ञातं फलिपरिचयो दुर्लभ इतः ॥
अये केयं धन्या धवलगृहवातायनगता तुलाकोटिक्वाणैर्विषमविशिखं जागरयति ।
पुरा या प्राणेशे गतवति कृता पुष्पधनुषा शरासारै रात्रिंदिवमकृपमुज्जागरकृशा ॥
अये केयं लीलाधवलगृहवातायनतले तुलाकोटिक्वाणैः कुसुमधनुषं जागरयति ।
अहो नेत्रद्वन्द्वं विलसति विलङ्घ्य श्रुतिपथं कथं न त्रैलोक्यं जयति मदनः स्मेरवदनः ॥
अये केलीगृहस्तम्भ किं कृतं सुकृतं त्वया ।
पर्यङ्के वल्लभं त्यक्त्वा त्वामालिङ्गति मानिनी ॥
अये को जानीते निजपुरुषसङ्गो हि न तथा यथा चेतः स्त्रीणां परपुरुषसङ्गो रमयते ।
अपि स्वैरं भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोर्मुकुलयति नेत्राणि नलिनी ॥
अये कोऽयं वृद्धो गृहपरिवृढः किं तव पिता न मे भर्ता किंतु व्यपगतदृगन्यच्च बधिरः ।
हुहुं श्रान्तोऽद्याहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि ननु निर्दंशमशके ॥
अये जलधिनन्दिनीनयननीरजालम्बन- ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम् ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वंकषैर् जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥
अये ताल व्रीडां व्रज गुरुतया भाति न भवान् फले न च्छाया नो कठिनपरिवारो हि भवतः ।
इयं धन्या धन्या सरलकदली सुन्दरदला परात्मानं मन्ये सुखयति फलेनामृतवता ॥
अये दिष्ट्या नष्टो मम गृहपिशाचीपरिचयः परावृत्तं मोहात् स्फुरति च मनाग् ब्रह्मणि मनः ।
विकारोऽप्यक्षाणां गलित इव निर्भाति विषयात् तथापि क्षेत्रज्ञः स्पृहयति वनाय प्रति मुहुः ॥
अये दूरभ्रान्तं विषयविषमारण्यविपथे परिभ्रान्तं चेतो मम विधुरितं स्वैरमधुना ।
निरावर्ते नित्ये स्थिरनिरवधानभ्रममये विवेकप्रभ्रश्यद्विकृतिपरमानन्दजलधौ ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0