महासुभाषितसंग्रह · श्लोक 2763-2782
अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्य् अपि तोयानि महान् न हा जहासि ॥
अयि लङ्घितमर्याद स्मर स्मर हरानलम् ।
दग्धं दग्धुमयुक्तं ते जनं विरहकातरम् ॥
अयि वरोरु हतस्मरदीपिके यदि गतासि मदीक्षणगोचरात् ।
असमसायकसायककीलिता वद गमिष्यसि मे हृदयात् कथम् ॥
अयि विजहीहि दृढोपगूहनं त्यज नवसंगमभीरु वल्लभम् ।
अरुणकरोद्गम एष वर्तते वरतनु संप्रवदन्ति कुक्कुटाः ॥
अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यत दाहवदान्यता ।
ग्लपितशंभुगलाद् गरलात् त्वया किमुदधौ जड वा वडवानलात् ॥
अयि शाकुनिक कृतोऽञ्जलिर् इतरे न कतीह जीवनोपायाः ।
हत्वा शुकान् किमेतद् विपिनमसारस्वतं कुरुषे ॥
अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥
अयि संप्रसीद पार्वति शिवोऽपि तव पादयोर्निपतितोऽहम् ।
शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥
आयि सखि कुरु क्षिप्रं रम्भादलैः शिशिरानिलं सहचरि तनौ सत्कर्पूरं द्रुतं परिलेपय ।
सरसबिसिनीपत्रैस्तल्पं प्रिये परिकल्पय स्फुटमिति विभो तस्या गेहे भवन्ति किलोक्तयः ॥
अयि सखि निशा किं वा घस्रः शशी किमु भास्करः स्फुरति पुरतः कामः किं वा ममास्ति स वल्लभः ।
प्रतिपलमिति प्राणाधीश प्रिया विरहातुरा कथयति मुहुर्मन्दं मन्दं सखीं सविधस्थिताम् ॥
अयि सखि परिदोषो जायते चुम्बने किं किमु कुचपरिरम्भे किं रते ब्रूहि तथ्यम् ।
इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ॥
अयि सखि मम प्राणाधीशो गतो विषयान्तरं कुसुमविशिखस्तस्मादुच्चैर्दुनोति तनुं शरैः ।
लघु कुरु तथा यत्नं येन स्मराधिनिवारणे पटुतरमतेस्तस्याशु स्यादिहागमनं ततः ॥
अयि सखि शस्तः सखिवत् पतिरिति किं त्वं न जानासि ।
शस्तोऽतिसखिवदुपपतिर् इत्यालि कथं त्वयापि नाबोधि ॥
अयि सरसिज सायं संनिधानं त्वदीयं भ्रमर उपगतोऽयं चूतमालां विहाय ।
अनुपममधुलोभाद् दूरतः सांप्रतं तद् इदमनुचितमेतन् मुद्रणं यन्मुखस्य ॥
अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥
अयि सुतनुशरीरे तल्पमारुह्य तूर्णं विरचय मम कण्ठे बन्धनं बाहुवल्ल्या ।
इतिनिगदति नाथे दीपमालोकयन्ती हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ॥
अयि सुन्दरि तव वदनं नित्यं पूर्णं सुधानिधिर्मत्वा ।
हन्त पतत्युपरिष्टान् मध्येऽम्बुधि नित्यमेवासौ ॥
अयि सुन्दरि संप्रति पश्य पुरश् चरमाचलमस्तकमेति रविः ।
समुपैति तमःपटलीजटिला रजनी कुरु कामकलाः सकलाः ॥
अयि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता ।
मुखानि लोलाक्षि दिशामसंशयं दशापि शून्यानि विलोकयिष्यसि ॥
अयि हस्तगतैः प्राणैर् अमीभिः कन्दुकैरिव ।
अपर्यन्तरसं मुग्धे कियत् क्रीडितुमिच्छसि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0