भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2743-2762

2743

अयि जलद यदि न दास्यसि कतिचित् त्वं चातकाय जलकणिकाः ।
तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते ॥

2744

अयि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया ।
अलं खेदेन भूपालाः किं न सन्ति महीतले ॥

2745

अयि दयिते तव वदनं पायं पायं मनोभवो गर्जन् ।
स्मितमवलम्ब्य तमिस्रास्व् अपि हतकान् हन्त नो हन्ति ॥

2746

अयि दलदरविन्द स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गाः ।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन् परिमलमयमन्यो बान्धवो गन्धवाहः ॥

2747

अयि दीनदयार्द्रनाथ हे मथुरानाथ कदावलोक्यसे ।
हृदयं त्वदलोककातरं दयित भ्राम्यति किं करोम्यहम् ॥

2748

अयि दुर्जनगर्जितेन किं सरले नम्रमुखी विषीदसि त्वम् ।
परिपन्थिनि देवकीसुते परिवादोऽपि तपोभिरुन्नतैः ॥

2749

अयि दुष्कृतकेन केन वत्से हलिकद्वारि लवङ्गि पुष्पितासि ।
स्तबकास्तव पांसुभिः परीताः परितः प्राङ्गणसीम्नि यल् लुठन्ति ॥

2750

अयि दूति सखी त्वमेव मे मदनो हन्ति शितैः शिलीमुखैः ।
दयितं तमुपानयाशु तत् सुशको जीवितनिर्गमोऽन्यथा ॥

2751

अयि नन्दतनूज किंकरं पतितं मां विषमे भवाम्बुधौ ।
कृपया तव पादपङ्कज- स्थितधूलीसदृशं विभावय ॥

2752

अयि पतङ्गि लवङ्गलतावने पिब मधूनि विधूय मधुव्रतान् ।
इह वने च वनेचरसंकुले न च सतामसातां च निरूपणम् ॥

2753

अयि परारि परुन्मलयानिला ववुरमी जगुरेव च कोकिलाः ।
कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥

2754

अयि पिबत चकोराः कृत्स्नमुन्नामिकण्ठ- क्रमसरलितचञ्चच्चञ्चवश्चन्द्रिकाम्भः ।
विरहविधुरितानां जीवितत्राणहेतोर् भवति हरिणलक्ष्मा ये न तेजोदरिद्रः ॥

2755

अयि बत गुरु गर्वं मा स्म कस्तूरि यासीर् अखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥

2756

अयि मकरन्दस्यन्दिनि पद्मिनि मन्ये तवैव सुभगत्वम् ।
पुष्पवतीमपि भवतीं त्यजति न वृद्धः शुचिर्हंसः ॥

2757

अयि मदन न दग्धस्त्वं किमीशेन कोपात् किमुत रतिवियोगे नान्वभूर्मूर्ख दुःखम् ।
अविदितपरपीडो येन मामुत्पलाक्षी- रहितमहितपात्रैः पत्रिवर्षैर्दुनोषि ॥

2758

अयि मन्मथचूतमञ्जरि श्रवणायतलोचने प्रिये ।
अपहृत्य मनः क्व यासि मे किमराजकमत्र वर्तते ॥

2759

अयि ममैष चकोरशिशुर्मुनेर् व्रजति सिन्धुपिबस्य न शिष्यताम् ।
अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ॥

2760

अयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः ॥

2761

अयि मालति सौरभसारविनिर्- जितसंविकसत्कमलानिलये ।
मधुपानविधौ मधुपस्य पुनर् भुवने भवतीमहमाकलये ॥

2762

अयि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न भवत्यदः ।
भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्त्रमिदं स्मरयोगिनः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc