महासुभाषितसंग्रह · श्लोक 2723-2742
अयाचतः सीदतश्च सर्वोपायैर्निमन्त्रय ।
आनृशंस्यं परो धर्मोऽयाचते यत् प्रदीयते ॥
अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्चृङ्खलो नृणाम् ॥
अयाचितारं नहि देवदेवम् अद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर् माध्यस्थमिष्टेऽप्यवलम्बतेऽर्थे ॥
अयाचितो मया लब्धो मत्प्रेषितः पुनर्गतः ।
यत्रागतस्तत्र गतस् तत्र का परिवेदना ॥
अयाच्यं चैव याचन्तेऽभोज्यान् व्याहारयन्ति च ।
उत्कोचैर्वञ्चनाभिश्च कार्याणि घ्नन्ति चास्यति ॥
अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् ।
कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥
अयि कठोर यशः किल ते प्रियं किमयशो ननु घोरमतःपरम् ।
किमभवद्विपिने हरिणीदृशः कथय नाथ कथं बत मन्यसे ॥
अयि कान्त पश्य मेघं नहि नहि पापं तवातिपुण्यायाः ।
नहि नहि पश्य पयोधरम् अपसारय कञ्चुकीमुरसः ॥
अयि किं गुणवति मालति जीवति भवतीं विना मधुपाः ।
अथ यदि जीवति जीवतु जीवनमपि जीवनाभासः ॥
अयि कुरङ्गि तपोवनविभ्रमाद् उपगतासि किरातपुरीमिमाम् ।
इह न पश्यसि दारय मारय ग्रस पिबेति शुकानपि जल्पतः ॥
अयि कुरङ्गि तुरङ्गमविक्रमे त्यज वनं जवनं गमनं कुरु ।
इह वने विचरन्ति हि नायकाः सुरभिलोहितलोहितसायकाः ॥
अयि कुलनिचूलमूलोच्- छेदनदुःशीलवीचिवाचाले ।
बकविघसपङ्कसारा न चिरात् कावेरि भवितासि ॥
अयि क्षुद्रो माभून् मतिमहिमगर्वो मनसि वः करी यातो बन्धं यदिह विनयस्तत्र विजयी ।
अयं क्रोधाध्मातस्त्यजति विनयं चेन् मदवशात् ततः स्कन्धावारं न किमखिलमेवाकुलयति ॥
अयि खलु बधिराधिराज कीरं तुदसि शलाकनिपातनेन मोहात् ।
अनिशमपि सुधानिधानवाणीं रचयतु मौनमुखोऽस्तु वा समस्ते ॥
अयि खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादाः ॥
अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवम् ।
ग्रीष्मे दवाग्निवलितस् तापिच्छोऽयं न विद्युत्वान् ॥
अयि चकोरकुटुम्बिनि कातरे तिरय पक्षपुटेन कुटुम्बकम् ।
बहु गतं कियदप्यवशिष्यते व्यपगतं तिमिरैरुदितः शशी ॥
अयि चातक चञ्चुपुटात् स्खलयति जलदोदबिन्दुमनिलश्चेत् ।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥
अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि ।
न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥
अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः ।
विश्रामकामना चेच् छिवकल्परुहे चिरं तिष्ठ ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0