भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2703-2722

2703

अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः ।
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥

2704

अयमालोहितच्छायो मदेन मुखचन्द्रमाः ।
संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥

2705

अयमिह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
असरलमरसमसारं शाखोटकविटपमनुसरति ॥

2706

अयमुदयति कोकीशोकशल्यैर्मयूखैः शतमखपुरनारीनेत्रगण्डूषपेयः ।
उदयगिरिमृगेन्द्रोद्गारभिन्नाङ्करङ्कु- श्रवणरुधिरधारापाटलः पार्वणेन्दुः ॥

2707

अयमुदयति चन्द्रश्चन्द्रिकाधौतविश्वः परिणतविमलिम्नि व्योम्नि कर्पूरगौरः ।
ऋजुरजतशलाकास्पर्धिभिर्यस्य पादैर् जगदमलमृणालीपञ्जरस्थं विभाति ॥

2708

अयमुदयति चन्द्रो वारिधेरम्बुगर्भाद् अमृतकणकरालैरंशुभिर्दीप्यमानः ।
भुजगशयनवक्षोहर्म्यदेशे ललन्त्या वदनमिव यदृच्छोत्तानितं विश्वमातुः ॥

2709

अयमुदयति मुद्राभञ्जनः पद्मिनीनाम् उदयगिरिवनालीबालमन्दारपुष्पम् ।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥

2710

अयमुदयमहीध्रधातुरागैर् अरुणकरारुणिताम्बराभिरामः ।
वितरसि न दृशौ कृशाङ्गि ताराम् इव दिवि वन्दितुमिन्दुरभ्युपैति ॥

2711

अयमुदयमहीभृन्मूर्ध्नि पाणिं गृहीत्वा दिवसपतिरहौषीदिन्दुपादान् हवींषि ।
अरुणकिरणवह्नौ कन्यका पौरुहूती हरिदपि किमकार्षीत् तारकालाजहोमम् ॥

2712

अयमुदितो हिमरश्मिर् वनितावदनस्य कीदृशः सदृशः ।
नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥

2713

अयमुपगतकृष्णः कृष्णसाराक्षिपातैर् यमकृ(विकसि?)तनवनीलाम्भोजवक्त्रश्चकास्ति ।
जलयुवतिकुचानुप्रासितोत्तुङ्गकुम्भ- स्थलमदकलगर्जन्नीरनागस्तटाकः ॥

2714

अयमुषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रस्वेदबिन्दूपमर्दी ।
स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ॥

2715

अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नव वारिधरोदयादहोभिर् भवितव्यं च निरातपत्वरम्यैः ॥

2716

अयमेकोऽहमेकेति ज्ञानं तत्संगमे न मे ।
राग एवाधिकस्तत्र हरिद्राचूर्णयोरिव ॥

2717

अयमेव परो धर्मो ह्ययमेव परं तपः ।
पतिशुश्रूषणं यत्र तत् स्त्रीणां स्वर्गहेतुकम् ॥

2718

अयशः प्राप्यते येन येन चाधोगतिर्भवेत् ।
स्वार्थाच्च भ्रश्यते येन तत् कर्म न समाचरेत् ॥

2719

अयशस्यम् अनायुष्यं परदाराभिमर्शनम् ।
अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥

2720

अयशोभिदुरालोके कोपधामरणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ॥

2721

अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनम् ।
प्रसुप्तहरिबोधनं निशितखङ्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनस्यार्जनम् ॥

2722

अयस्तु काकतुण्डेन चर्म आरामुखेन हि ।
मृत्पिण्डं च घटं चैव विध्येत् सूचीमुखेन हि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc