भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2683-2702

2683

अयमक्षुण्णकान्तश्रीर् अधरो हरिणीदृशः ।
प्रवालपद्मरागादेर् उपरि प्रतिगर्जति ॥

2684

अयमङ्कुरभाव एव तावत् कुचयोः कर्षति लोकलोचनानि ।
इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ॥

2685

अयमतिजरठाः प्रकामगुर्वीर् अलघुविलम्बिपयोधरोपरुद्धाः ।
सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥

2686

अयमपरलतायाः सादरं हन्त पीत्वा मधु मम मकरन्दं पातुमायाति भृङ्गः ।
इति मनसि विषादं मल्लिके मा कुरु त्वं बत वद मधुपानां मानसे को विवेकः ॥

2687

अयमपि खरयोषित्कर्णकाषायमीषद् विसृमरतिमिरोर्णाजर्जरोपान्तमर्चिः ।
मदकलकलविङ्कीकाकुनान्दीकरेभ्यः क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥

2688

अयमपि पुरुहूतप्रेयसीमूर्ध्नि पूर्णः कलश इव सुधांशुः साधुरुल्लालसीति ।
मदनविजययात्राकालविज्ञापानाय स्फुरति जलधिमध्ये ताम्रपात्रीव भानुः ॥

2689

अयमभिनवमेघश्यामलोत्तुङ्गसानुर् मदमुखरमयूरीमुक्तसंसक्तकेकः ।
शकुनिशबलनीडानोकहस्निग्धवर्ष्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः ॥

2690

अयममृतनिधानं नायकोऽप्योषधीनाम् अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥

2691

अयममृतनिधानं नायकोऽप्योषधीनां शतभिषगनुयातः शंभुमूर्धावतंसः ।
विरहयति न चैनं राजयक्ष्मा शशाङ्कं हतविधिपरिपाकः केन वा लङ्घनीयः ॥

2692

अयमयमसावाकर्ण्यारात् प्रतिद्विपडिण्डिमं मदकलुषिते नेत्रे मार्जन्नुदस्तकरार्गलः ।
अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः प्रविशति नृपस्यान्तःकक्षां जवादरिमुद्गरः ॥

2693

अयमयोगिवधूवधपातकैर् म्रमिमवाप्य दिवः खलु पात्यते ।
शितिनिशादृषदि स्फुटदुत्पतत्- कणगणाधिकतारकिताम्बरः ॥

2694

अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर् हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्तं शीकरक्लिन्ननेमिः ॥

2695

अयमलघुविसारिस्फारिजिह्वाकलापो ज्वलति यदि न मध्ये वाडवो हव्यवाहः ।
मुहुरुपचितसारो वारिभिर्निम्नगानां त्रिभुवनमपि किं न प्लावयत्यम्बुराशिः ॥

2696

अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
इदमपि च सुलभमम्भो भवति पुरा जलधराभ्युदये ॥

2697

अयमवसर उपकृतये प्रकृतिचला यावदस्ति संपदियम् ।
विपदि सदाभ्युदयिन्यां पुनरुपकर्तुं कुतोऽवसरः ॥

2698

अयमविचारितचारुतया संसारो भाति रमणीयः ।
अत्र पुनः परमार्थदृशां न किमपि सारमणीयः ॥

2699

अयमसौ गगनाङ्गणदीपकस् तरलकालभुजंगशिखामणिः ।
क्षणविडम्बितवाडवविग्रहः पतति वारिनिधौ विधुरो रविः ॥

2700

अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना ।
समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥

2701

अयमहो रजनीचरकेसरी गिरिदरीशयनात् सहसोत्थितः ।
तिमिरवारणकुम्भविदारणोच्- छ्वलितरक्तभरैरिव लोहितः ॥

2702

अयमात्मा स्वयं साक्षाद् गुणरत्नमहार्णवः ।
सर्वज्ञः सर्वदृक् सार्वः परमेष्ठी निरञ्जनः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc