महासुभाषितसंग्रह · श्लोक 2663-2682
अयं लोलन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं मन्मथसुहृत् ।
विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः ॥
अयं वहति धातारं यद्वा देवीं सरस्वतीम् ।
पक्षद्वयमपि स्थाने राजहंसस्य निर्मलम् ॥
अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥
अयं विपाको वद कस्य यूनः कल्याणि कल्याणपरंपराणाम् ।
यदक्षिकोणस्रवदच्छधारा हारावतारो गुणमन्तरेण ॥
अयं शून्यो ग्रामः सुरसदनमेतन्नु पतितं पुरः शुष्का वापी तरुरयमितः शीर्णविटपः ।
वयं चैते पान्थाः परिकृशदशाभाग्यगतयः समानः संयोगः कटुरपि मनो मे रमयति ॥
अयं स कालः संप्राप्तो धार्त्तराष्ट्रोपजीविनाम् ।
निवेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥
अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् ।
लभेत वा प्रार्थयिता न वा श्रियं श्रियो दुरापः कथमीप्सितो भवेत् ॥
अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः ॥
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥
अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति ।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥
अयं सेनोत्तंसः करकृतकृपाणो रणभुवि द्विषद्भूमीपालाः किमपसरत प्राणकृपणाः ।
किमभ्यर्थ्यः पृथ्वीधरकुहरवासोऽद्य भवतां न किं हृद्या विद्याधरनगरनीलोत्पलदृशः ॥
अयं स्निग्धश्यामो य इह विहरत्यम्बुजवने विनिद्रे व्यागुञ्जन्मधुप इति तं जल्पतु जनः ।
अहं शङ्के पङ्केरुहकुहरवासव्यसनिनीं श्रियं भृङ्गच्छद्मा मुररिपुरुपेतो रमयितुम् ॥
अयं स्वभावः स्वत एव यत् पर- श्रमापनोदप्रवणं महात्मनाम् ।
सुधांशुरेष स्वयमर्ककर्कश- प्रभाभितप्तामवति क्षितिं किल ॥
अयं स्वार्थः परार्थोऽयम् इत्येवं वा न कल्पयेत् । विबुधा नैव मन्यन्ते स्वं परं वा पृथक् पृथक् । नियुञ्जीत परस्यार्थे प्रोत्सहेत स्वकर्मणि ॥ अयं हि तीव्रेण जगन्ति तेजसा
प्रताप्य भासां पतिरस्तमागतः ।
प्रतापमात्रोपनता विभूतयश् चिरं न तिष्ठन्ति परोपतापिनाम् ॥
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
देहिनो विविधक्लेशसंतापकृदुदाहृतः ॥
अयं हि प्रथमो रागः समस्तजनरञ्जने ।
यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमो भवेत् ॥
अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् ।
पतिता अपि नेक्ष्यन्ते गुणास्तोयकना इव ॥
अयथाविहितानां यन् मनोज्ञतासंपादौ न स्तः ।
कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टम् ॥
अयने विषुवे चैव षडशीतिमुखेषु च ।
चन्द्रसूर्योपरागे च दत्तमक्षयमश्नुते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0