महासुभाषितसंग्रह · श्लोक 2643-2662
अयं धूर्तो मायाविनयमधुरादस्य चरितात् सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् ।
कपोले यल्लाक्षारसबहलरागप्रणयिनीम् इमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
अयं नेत्रादत्रेरजनि रजनीवल्लभ इति भ्रमः कोऽयं प्रज्ञापरिचयपराधीनमनसाम् ।
सुधानामाधारः स खलु रतिबिम्बाधरसुधा- रसासेकस्निग्धादजनि नयनात् पुष्पधनुषः ॥
अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः ।
अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ॥
अयं पटो मे पितुरङ्गभूषणं पितामहाद्यैरुपभुक्तयौवनः ।
अलंकरिष्यत्यथ पुत्रपौत्रकान् मयाधुना पुष्पवदेव धार्यते ॥
अयं पद्मासनासीनश् चक्रवाको विराजते ।
युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥
अयं पीनस्तनाभोगसौभाग्यविभवोचितः ।
द्रविणोपार्जनस्यैव कालः कुवलयेक्षणे ॥
अयं पुरः पार्वणशर्वरीशः किं दर्पणोऽयं रजनीरमण्याः ।
यतस्तदीयं प्रतिबिम्बमस्मिन् संलक्ष्यते लाञ्छनकैतवेन ॥
अयं प्रभुरयं भृत्य इति या जगतः स्थितिः ।
फलं विजयते तत्र श्रीप्रसादाप्रसादयोः ॥
अयं बन्धुः परश्चायं ममायमयमन्यतः ।
इति ब्रह्मन्न जानामि तेन जीवाम्यनामयः ॥
अयं मन्दद्युतिर्भास्वान् अस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन् नरान् ॥
अयं मम दहत्यङ्गम् अम्भोजदलसंस्तरः ।
हुताशनप्रतिनिधिर् दाहात्मा ननु युज्यते ॥
अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥
अयं मुखसरोरुहभ्रमरविभ्रमः सुभ्रुवां कुचस्थलकुरङ्गकः पृथुनितम्बलीलाशिखी ।
न यौवनमदोदयश्चरति चारुकान्तिच्छटा- कुलत्रिवलिकूलिनीपुलिनराजहंसश्चिरम् ॥
अयं मृगः समायाति मृगात् सिंहः पलायते ।
ततो वेगात् पलायस्व त्वरितैस्त्वरितैः पदैः ॥
अयं मेघव्यूहे बलिनि परिपन्थिन्यपसृते शरज्जन्याः स्वैरं हसितमिव हर्षादविरतम् ।
पयःपूरभ्रंशक्रमजनितसोपानसिकते नदीतीरे धीरं चरति विशदः खञ्जनगणः ॥
अयं मे वाग्गुम्फो विशदपदवैदग्ध्यमधुरः स्फुरद्बन्धो वन्ध्यः परहृदि कृतार्थः कविहृदि ।
कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः कुमारे निःसारः स तु किमपि यूनः सुखयति ॥
अयं रत्नाकरोऽम्भोधिर् इत्यसेवि धनाशया ।
धनं दूरेऽस्तु वदनम् अपूरि क्षारवारिभिः ॥
अयं रसालः सुकृतैकसालः प्रवालमालोल्लसदालवालः ।
मुदः प्रदाता भविता कथं मे वराङ्गनेत्यश्रुमुखी शुशोच ॥
अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः समीरोऽयं वेलावनविदलदेलापरिमलः ।
इयं प्रावृड् धन्या नवजलदविन्यासचतुरा स्मराधीनं चेतः सखि किमपि कर्तुं मृगयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0