भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2623-2642

2623

अम्लानपङ्कजा माला कण्ठे रामस्य सीतया ।
मुधा बुधा भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ॥

2624

अम्लानमाल्याभरणाम्बरस्य वराङ्गनानन्दनमन्दिरस्य ।
नित्यप्रकाशोत्सवसेवितस्य स्वर्गस्य वित्तस्य च को विशेषः ॥

2625

अम्लानस्तबकन्ति कुन्तलभरे सीमन्तसीमास्विमाः सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च ।
प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः बिम्बोष्ठे क्षितिपाल बालतरणेर्लाक्षारसन्ति त्विषः ॥

2626

अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात् ।
दृष्टं प्रसूनोपमया मयान्यन् न धर्मशर्मोभयकर्मठं यत् ॥

2627

अम्लानो बलवाञ्शूरश् छायेवानुगतः सदा ।
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥

2628

अयं कनकनिर्मितः सकलभूधरादुन्नतः सहस्रनयनाश्रयः सपदि लब्धभाग्योदयः ।
कुचोपरि परिस्फुरत्तरुणिचारुचेलाञ्चलं मनागपि निवारय त्यजतु गर्वमुर्वीधरः ॥

2629

अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गोऽयं राहुर्विकलमहिमा शीतकिरणः ।
अजानानस्तेषामपि नियतकर्मस्वकफलं ग्रहग्रामग्रस्ता वयमिति जनोऽयं प्रलपति ॥

2630

अयं कामो निजामो वा त्वया किमवधारितम् ।
इति दृष्टिरिव प्रष्टुं श्रुतिं श्रयति सुभ्रुवाम् ॥

2631

अयं खलु मृणालिनीनवविलासवैहासिकस् त्विषां वितपते पतिः सपदि दृश्यमाना निजाः ।
स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपर्यसितवृत्तयो घुसृणपङ्कपत्राङ्कुराः ॥

2632

अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥

2633

अयं ज्योत्स्नाजानिस्तव वदनदूनोऽम्बरगुहां प्रविष्टस्तत्रापि प्रसृतमिदमेनं दृढतमः ।
इति त्रासोद्रेकक्रमगलितसत्त्वः क्षयगदी विधिर्दग्धो दीनं व्यथयति निदानं हि मृदुता ॥

2634

अयं तस्या रथक्षोभाद् अंसेनांसो निपीडितः ।
एकः कृती शरीरेऽस्मिञ् शेषमङ्गं भुवो भरः ॥

2635

अयं तावद् बाष्पस्त्रुटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति धरणीं जर्जरकणः ।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्मातहृदयः ॥

2636

अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।
करोति कस्य नो बाले पिपासाकुलितं मनः ॥

2637

अयं त्रयाणां ग्रामाणां निधानं मधुरध्वनिः ।
रेखात्रयमितीवास्याः सूत्रितं कण्ठकन्दले ॥

2638

अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नलः ॥

2639

अयं दूतार्थसंक्षेपः प्रत्यर्थनियता गिरः ।
प्रयोजनं क्रियोत्पादि कियच्छक्येत भाषितुम् ॥

2640

अयं दूरभ्रान्तः पटुतरपिपासाकुलमनाः कपोले ते मत्तद्विप निपतितः षट्पदयुवा ।
त्वमप्येतां पीनश्रवणदरदोलाव्यसनितां विमुञ्च स्वाच्छन्द्यादपनयतु तावत् तृषमिमाम् ॥

2641

अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ।
प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ॥

2642

अयं धारावाहस्तडिदियमियं दग्धकरका स चायं निर्घोषः स च रववशो भेकनिचयः ।
इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर् घनश्वासोत्क्षेपैर्ज्वलयति मुहुर्मृत्युवशिनी ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc