महासुभाषितसंग्रह · श्लोक 2603-2622
अम्भोजिनीवनविलासनिवासमेव हंसस्य हन्ति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्घ्यकीर्तिमपहर्तुमसौ समर्थः ॥
अम्भोदस्तनितं निशम्य करिणां बृंहेति रंहोयुतस् सद्यस्त्यक्तमहीध्रकन्दरगृहः कौतूहली निर्गतः ।
एतस्मिन् क्षण एव चण्डमशनेराकर्ण्य शब्दं क्रुधा तं प्रत्युत्पतति स्वगर्जितजितं धीरो मृगाणां पतिः ॥
अम्भोधिः स्थलतां स्थलं जलधितां धूलीवलः शैलतां मेरुर्मृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीबताम् ।
वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥
अम्भोधिक्षिप्तमुक्तारुचिहरिचरणोद्गीर्णगङ्गाम्बुतुल्यं कालिन्दीफेनकान्तिस्फुरितफणधरोन्मुक्तनिर्मोकरोचिः ।
कर्णाटीकुन्तलान्तर्विगलितसुमनोदामरम्यं समन्ताच् छ्रीखण्डालेपलक्ष्मीमुपनयति यशो यस्य खड्गप्रसूतम् ॥
अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनानाम् आ पारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितान्तर्जलानाम् ।
मालेवाम्लानपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः सा मय्येव स्खलन्ती कथयति विनयालंकृतं ते प्रभुत्वम् ॥
अम्भोधेरेव जाताः कति जगति न ते हन्त सन्तीह शङ्खा यान् संगृह्य भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय ।
एकः श्रीपाञ्चजन्यो हरिहरकमलक्रोडहंसायमानो यस्याध्वानैरमानैरसुरवरवधूवर्गगर्भा गलन्ति ॥
अम्भोधेर्जलयन्त्रमन्दिरपरिस्पन्देऽपि निद्राणयोः श्रीनारायणयोर्घनं विघटयत्यूष्मा समालिङ्गनम् ।
किं चोत्तप्तवियत्कपालफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति पर्पटमिव क्रूरा रवेरंशवः ॥
अम्भोधेर्वडवामुखानलझलाज्वालोपगूढान्तरा व्यामोहादपिबन्नपः स्फुटममी तर्षेण पर्याविलाः ।
उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशादहो दह्यन्ते कथमन्यथार्धमलिनाङ्गारद्युतस्तोयदाः ॥
अम्भोधौ विहरन्तमन्तरहितैः कीर्तिं वहन्तं गुणैस् तं मैनाकमवज्रगर्वविषयौ पक्षौ दधानं नुमः ।
आसन्ने सुरलोकमानुषजगत्पातालपारात्यये यः पाथोनिधिलङ्घिनः पथि मरुत्सूनोर्व्यनैषीत् क्लमम् ॥
अम्भोनिधेरनवगीतगुणैकराशेर् उच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु ।
आश्वासनं यदवकृष्टमभून्महर्षे तोयं त्वया तदपि निष्करुणेन पीतम् ॥
अम्भोऽपि प्रवहत्स्वभावमशनैराश्यानमश्मायते ग्रावाम्भः स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः ।
कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेऽद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः ॥
अम्भोबिन्दुग्रहणरभसांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥
अम्भो भजस्व चिरमस्य यथाभिलाषम् एतन्न ताण्डवय सैरिभ काननं च ।
दुश्चेष्टितेन यदनेन भृशं तवैष ध्वस्ताशयो भवति निष्कलुषस्तडागः ॥
अम्भोभिस्तनकुम्भयोस्तव घनश्लेषात् समुत्कीर्णतां याताया शुकवक्रिमप्रणयिनी सेयं न लुप्ता लिपिः ।
किं चैतां कुसुमेषु कुञ्जरशिरोनक्षत्रमालां तिरो- धित्सुर्निष्फलमेव मज्जसि नभः स्वच्छे सरोवारिणि ॥
अम्भोमुचां सलिलमुद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः ।
आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ॥
अम्भोराशिरिवासि सत्त्वनिलयो नो मन्दरक्षो भवान् कल्याणप्रकृतिः सुमेरुरिव किं देवः सुरापाश्रयः ।
सच्छायो न तु रूढदुस्तरलतस्त्वं कल्पवृक्षो यथा तैः कुर्वन्ति तुलां तथापि भवतो मूढाः कवीनां धियः ॥
अम्भोरुहं वदनमम्बकमिन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः ।
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः ॥
अम्भोरुहमये स्नात्वा वापीपयसि कामिनी ।
ददाति भक्तिसंपन्ना पुष्पसौभाग्यकाम्यया ॥
अम्भोरुहाक्षि शंभोश् चरणावाराधितौ केन ।
यस्मै विचलितवदना मदनाकूतं विभावयसि ॥
अम्भोवाहमुरद्विषो निवसनं ध्वान्ताद्रिदिव्यौषधी कन्दर्पस्य विलासचम्पकधनुर्वर्षालतामञ्जरी ।
लेखा व्योमकशोपले विरचिता चामीकरस्य स्फुरद् धाम्नः पान्थिविलासिनीजनमनः कम्पाय शम्पाभवत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0