भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2583-2602

2583

अम्बुजमम्बुनि जातं नहि दृष्टं जातमम्बुजादम्बु ।
अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा ॥

2584

अम्बुजमम्बुनि मग्नं त्रासादाकाशमाश्रितश्चन्द्रः ।
सम्प्रति कः परिपन्थी यं प्रति कोपारुणं वदनम् ॥

2585

अम्बुदः कृतपदो नभस्तले तोयपूरपरिपूरितोदधिः ।
गोष्पदस्य भरणेऽप्मशक्तिमान् इत्यसत्यमभिधीयते कथम् ॥

2586

अम्बुधेरुदगमद्विधुभङ्ग्या नूनमौर्वशिखिभास्मनपिण्डः ।
यत्किलास्य घटते नहि तृप्तिः खण्डिताजनदृगम्बुसरिद्भिः ॥

2587

अम्बेयं नेयमम्बा नहि खरकपिशं श्मश्रु तस्या मुखार्धे तातोऽयं नैष तातः स्तनमुरसि पितुर्दृष्टवान्नाहमत्र ।
केयं कोऽयं किमेतद्युवतिरथ पुमान् वस्तु किं स्यात् तृतीयं शंभोः संवीक्ष्य रूपादपसरति गुहः शङ्कितः पातु युष्मान् ॥

2588

अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां पांशुर्वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् ।
निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ॥

2589

अम्भः कुम्भाम्भोरुह- चामरभृङ्गारहेमरूप्याणि ।
फलताम्बूलवराम्बर- मदिरामीनाज्यभोज्यानि ॥

2590

अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर- प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः ।
विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव- स्थैर्योन्मूलनशक्तयः कथममी निर्यान्ति वर्षानिशाः ॥

2591

अम्भसः परिमाणेन उन्नतं कमलं भवेत् ।
स्वस्वामिना बलवता भृत्यो भवति गर्वितः ॥

2592

अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् ।
वातपित्तकफान् हत्वा जीवेद्वर्षशतं सुखी ॥

2593

अम्भसा भिद्यते सेतुस् तथा मन्त्रोऽप्यरक्षितः ।
पैशुन्याद् भिद्यते स्नेहो वाग्भिर्भिद्येत कातरः ॥

2594

अम्भसा शममायाति मुष्टिमेयशिखः शिखी ।
प्रवृद्धोऽधःस्थितैः पश्चात् संतप्तैरेव दृश्यते ॥

2595

अम्भसि तरणिसुतायाः स्तम्भिततरणिः स देवकीसूनुः ।
आतरविरहितगोप्याः कातरमुखमीक्षते स्मेरः ॥

2596

अम्भस्तत्त्वं भूमितत्त्वं च वायोस् तत्त्वं तेजस्तत्त्वमाकाशतत्त्वम् ।
पञ्चैतानि प्राणवायुं मिलित्वा नाडीयुग्मे प्राणिनां संचरन्ति ॥

2597

अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम् ।
स्वभूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥

2598

अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय ।
सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर् मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥

2599

अम्भोजपत्रायतलोचनानाम् अम्भोधिदीर्घास्विह दीर्घिकासु ।
समागतानां कुटिलैरपाङ्गैर् अनङ्गबाणैः प्रहता युवानः ॥

2600

अम्भोजप्रकरोऽथ केतककुलं कुन्दोत्करः कैरव- व्रातो मल्लिगणोऽथ चम्पकचयो जातीगणो वाथवा ।
नो चेदादरमातनोति पिक तत्खेदं वृथा मा कृथा यस्मात् क्वापि कदापि कोऽपि भविता यस्त्वद्गुणं ज्ञास्यति ॥

2601

अम्भोजाक्ष्याः पुरवनलता धाम्नि संकेतभाजश् चेतोनाथे चिरयति भृशं मोहनिद्रां गतायाः ।
स्वच्छं नाभिह्रदवलयितं कान्तरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ।

2602

अम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान् दूरस्थोऽपि पयोधरोऽतिशिशिरस्पर्शं करोत्यातपम् ।
शक्तिः काप्यपरिक्षतास्ति महतां स्वैरं दविष्ठान्यहो यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc