भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2563-2582

2563

अमेयो मितलोकस्त्वम् अनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तम् अव्यक्तो व्यक्तकारणम् ॥

2564

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।
आत्मप्रत्ययकोशस्य वसुधेयं वसुंधरा ॥

2565

अमोघा वासरे विद्युद् अमोघं निशि गर्जितम् ।
अमोघा मुनीनां वाणी अमोघं देवदर्शनम् ॥

2566

अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् ।
देवतानां पित् णां च भागो येन प्रदीयते ॥

2567

अम्बरं विनयतः प्रियपाणेर् योषितश्च करयोः कलहस्य ।
वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ॥

2568

अम्बरं स्तिमितमम्बुधारया व्यक्त एष परितः पयोधरः ।
प्रावृषा किमपि लज्जमानया मीलिते रविविधूविलोचने ॥

2569

अम्बरमनूरुलङ्घ्यं वसुंधरा सापि वामनैकपदा ।
अब्धिरपि पोतलङ्घ्यः सतां मनः केन तुल्यं स्यात् ॥

2570

अम्बरमपनय मुग्धे व्रजतु विकाशं दिगम्बरता ।
हारावलिसुरतटिनी नखशशिमण्डलस्य कुचशम्भोः ॥

2571

अम्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह ।
यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ॥

2572

अम्बरमेष रमण्यै यामिन्यै वासरः प्रेयान् ।
अधिकं ददौ निजाङ्काद् अथ संकुचितः स्वयं तस्थौ ॥

2573

अम्बरविपिनमिदानीं तिमिरवराहोऽवगाहते जलधेः ।
रोमसु यदस्य लग्नास् तारकजलबिन्दवो भान्ति ॥

2574

अम्बरान्तमवलम्बितुकामम् अन्ध्यया समभिवीक्ष्य तु कामम् ।
अन्धकारमथ गम्य तनूनं लज्जयेव निरगम्यत नूनम् ॥

2575

अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽद्रिनितम्बे ।
पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥

2576

अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः ।
सासूयं कमलालया सुरगणः सानन्दमुद्यद्भयं राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः ॥

2577

अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां विद्वन् षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद ।
कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवान् अम्भोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ॥

2578

अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥

2579

अम्बामथार्घजलपात्रभृतं निरीक्ष्य दूरादपासरदसौ जनता विहस्ता ।
पूर्णादिवान्धतमसानि तुषारकान्तेर् आर्यात् पृथग्जनशतानि हि संभ्रमन्ति ॥

2580

अम्बायाश्च पितुश्च सद्गुणगणो यस्मिन्नभिव्यज्यते तस्मिन् स्वप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
सा वाणि विनयः स एव सहजः पुण्यानुभावः स च श्लाघायाः सदनं सुखस्य वसतिस्तेनैव पुत्री पिता ॥

2581

अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् नानाचाटुमुखी स दुर्लडितवान् खेलाभिरुच्छृङ्खलः ।
जिह्वादुर्व्यसनैरुपद्रवरुजः कुर्वन्ति ये दुःसुताम् तान् दृष्ट्वार्थमितस्ततो निखनति स्वं निःस्वमातन्वती ॥

2582

अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथेह ।
अस्मिन् पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc