महासुभाषितसंग्रह · श्लोक 2543-2562
अमृतरसविसरवितरण- मरणोत्तारितसुरे सति पयोधौ ।
कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥
अमृतरससारभूतः सकलकलो मकरकेतुसर्वस्वम् ।
अखिलजननयनसुखकृत् कथमिन्दुर्वासरेऽभ्युदितः ॥
अमृतवचनलीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु तेषु ।
अकलितपरसेवातापपापः पिकोऽसौ भजतु विपिनवाटीमेष पीयूषकण्ठः ॥
अमृतसिक्तमिवाङ्गमिदं यदि भवति तन्वि तवाद्भुतवीक्षितैः ।
अधरमिन्दुकरादपि शुभ्रयन्त्य् अरुणयन्त्यरुणादपि किं दृशम् ॥
अमृतस्यन्दिकिरणश् चन्द्रमा नामतो मतः ।
अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः ॥
अमृतस्यन्दिनं कश्चित् कृष्णमेघं द्विजः स्मरन् ।
उदन्यया न वेशन्तम् उदन्वन्तं च वीक्षते ॥
अमृतस्य प्रवाहैः किं कायक्षालनसंभवैः ।
चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥
अमृतस्येव कुण्डानि सुखानामिव राशयः ।
रतेरिव निधानानि योषितः केन निर्मिताः ॥
अमृतस्येव तृप्येत अपमानस्य योगवित् ।
विषवच्च जुगुप्सेत संमानस्य सदा द्विजः ॥
अमृतस्येव संतृप्येद् अवमानस्य वै द्विजः ।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥
अमृतांशोः किरणेभ्यो- ऽजायत वृद्धिर्महोदधेरुदरे ।
कथयन्ति हारमणयो हृदि तापमुषः स्पृशन्तोऽपि ॥
अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके ।
मुखेन्दौ तव सत्यस्मिन् अपरेण किमिन्दुना ॥
अमृतादमृतं न तावकाद् अपरं यत् त्रिपुरारिरादरात् ।
अवलम्ब्य शिरःस्थलेन तद् धृतहालाहाल एष जीवति ॥
अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।
परिष्वङ्गीय वात्सल्याद् अयमुत्कण्ठते जनः ॥
अमृताप्यायिनां न् णां संतोषो नैव जायते ।
गावस्तृणमिवारण्ये प्रार्थयन्ति नवं नवम् ॥
अमृतायतामिति वदेत् पीते भुक्ते क्षुते च शतं जीव ।
छोटिकया सह जृम्भा- समये स्यातां चिरायुरानन्दौ ॥
अमृता विगतप्राणा सान्तः शल्याकृतव्रणा ।
अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ॥
अमृतोत्प्रेक्षणे चारुर् अशेषजनसज्जनः ।
कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ॥
अमृतोन्मथितैः सुवर्णचूर्णैर् मृदमुत्पाद्य निधाय नाभिचक्रे ।
अकरोन्नवरोमराजियष्ट्या कुचकुम्भौ कुसुमेषुकुम्भकारः ॥
अमेध्यपूर्णे कृमिजालसंकुले स्वभावदुर्गन्धिनि शौचवर्जिते ।
कलेवरे मूत्रपुरीषभाजने रमन्ति मूढा विरमन्ति पण्डिताः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0