महासुभाषितसंग्रह · श्लोक 2523-2542
अमृतं किरति हिमांशुर् विषमेव फणी समुद्गिरति ।
गुणमेव वक्ति साधुर् दोषमसाधुः प्रकाशयति ॥
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम् ॥
अमृतं तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम् ।
अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टिरपरैव ॥
अमृतं दुर्लभं न् णां देवानामुदकं तथा ।
पित् णां दुर्लभः पुत्रस् तक्रं शक्रस्य दुर्लभम् ॥
अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥
अमृतं भुज्यते विद्ये भवतीमाश्रितैः परम् ।
अन्ये तु बत दूयन्ते संसरन्त इतस्ततः ॥
अमृतं शिशिरे वह्निर् अमृतं क्षीरभोजनम् ।
अमृतं गुणवद्भार्या अमृतं बालभाषितम् ॥
अमृतं शिशिरे वह्निर् अमृतं प्रियदर्शनम् ।
अमृतं राजसंमानम् अमृतं क्षीरभोजनम् ॥
अमृतं शिशिरे वह्निर् अमृतं बालभाषणम् ।
अमृतं स्वप्रिया भार्या ह्यमृतं स्वामिगौरवम् ॥
अमृतं शिशिरे वह्निर् अमृतं स्वामिगौरम् ।
भार्यामृतं गुणवती धारोष्णममृतं पयः ॥
अमृतं सद्गुणा भार्या अमृतं बालभाषितम् ।
अमृतं राजसंमानम् अमृतं मानभोजनम् ॥
अमृतजलधेः पायं पायं पयांसि पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ ।
तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा गिरः प्रतिभावताम् ॥
अमृतद्रवमाधुरीधुरीणां गिरमाकर्ण्य कुरङ्गलोचनायाः ।
मुहुरभ्यसनं कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन ॥
अमृतद्रवैर्विदधदब्जदृशाम् अपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥
अमृतनिधानं रुचिरं संतापनिवर्तते सदा निरतम् ।
चन्द्रमुखं तव सुन्दरि सुस्मितभासा विकासते परितः ॥
अमृतमधुरैः काञ्चीनादैः कृताभयडिण्डिमे त्रिवलिलहरीलावण्याम्भःकणोत्करकर्बुरे ।
विषमनयनज्वालाजालावलीढपराक्रमो लुठति मदनस्तन्वङ्गीनां नितम्बशिलातले ॥
अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात् प्रियादशनच्छदात् ॥
अमृतममृतं चन्द्रं चन्द्रं रतिं च रतिं तथा प्रथितमतयः कामं ब्रूयुर्मधूनि मधून्यपि ।
यदि न सुभगास्पर्शामोदं विना प्रमुदे ततः सकलमकलं तेषां व्यूहं ब्रवीमि पुनः प्रिये ॥
अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि ।
इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला धत्ते लक्ष्मीं कथं सकलात्मिकाम् ॥
अमृतमयमनङ्गक्ष्मारुहस्यालवालं मृतदिवसकपालं कालकापालिकस्य ।
जयति मकरकेतोः शाणचक्रं शराणाम् अमरपुरपुरन्ध्रीदर्पणः श्वेतभानुः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0