महासुभाषितसंग्रह · श्लोक 2503-2522
अमुनैव पथागतागतं कृतवानद्य मनोहरो हरिः ।
सखि दुर्जनभीतया मया हतया हन्त चिरं न वीक्षितः ॥
अमुष्मिन्नारामे तरुभिरभिरामे विटपिनः स्फुटं नृत्यद्भृङ्गी विविधनवसंगीतकलनात् ।
परानन्दैः पूर्णाः क इव तव वर्णावलिपद- क्रमश्रोता वेत्ता द्विजवर शुक श्राम्यसि कुतः ॥
अमुष्मिन्नुद्यानद्रुमकुहरनीरन्ध्रभरिते तमःखण्डे पिण्डीकृतबहलकालायसघने ।
यतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि विशेषो नयनयोः ॥
अमुष्मिन्नुद्याने विहगखल एष प्रतिकलं विलोलः काकोलः क्वणति खलु यावत् कटुतरम् ।
सखे तावत् कीर द्रढय हृदि वाचं च सकलां न मौनेन न्यूनो भवति गुणभाजां गुणगणः ॥
अमुष्मिन् पञ्चेषोस्त्रिभुवनजिगीषोः सहचरे मुखं रात्रेरत्रेस्तनुभुवि रहश्चुम्बति सति ।
ज्वलन्तीर्ष्यारोषोदयमयतयेवोषधिलताः पतद्भृङ्गीभङ्ग्या दधति कुमुदिन्यः कलुषताम् ॥
अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः ।
स माद्यन्दात्यूहश्चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः क्रमवशनमन्मन्दमधुरः ॥
अमुष्मिन् संसारे परिकलितसारेतरतया तदा विद्योत्कर्षः परिणतिमुपैति श्रुतिविदाम् ।
यदा मन्दाकिन्या मधुरवमरालीकलकल- प्रणालीवाचाले परिसरतटे यान्ति दिवसाः ॥
अमुष्मिंल्लावाण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥
अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन् गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरःश्रिया तत्र च गोपुरस्फुरत्- कपाटदुर्धर्षतिरःप्रसारिता ॥
अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥
अमुष्य मुषिता लक्ष्मीश् चक्षुषेति न नूतनम् ।
न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलम् ॥
अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥
अमुष्यां संक्रान्तौ तव तरुणि तारुण्यतरणे स्मरो दाता देवस्त्रिवलितटिनीतीरनिकटे ।
अमू ते वक्षोजौ सखि सुघटितौ हाटकघटौ महादानं कस्मै वद भवतु सारङ्गनयने ॥
अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान् मनोलौल्यं धातुः करकठिनतां मे विमृशति ।
पदं चित्ते धत्ते मतिरिति पुरा पङ्कजभुवा ध्रुवं कल्याणीयं कलितसुकृतैरेव रचिता ॥
अमुष्योर्वीभर्त्तुः प्रसृमरचमूसिन्धुरभवैर् अवैमि प्रारब्धे वमथुभिरवश्यायसमये ।
न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद् वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ॥
अमूनि गच्छन्ति युगानि न क्षणः कियत् सहिष्ये न हि मृत्युरस्ति मे ।
स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥
अमूर्खो यो मनुष्याणां मन्युसंतप्तचेतसाम् ।
परस्परोपकारेण पुंसां भवति विग्रहः ॥
अमूर्हि भित्त्वा जलदान्तराणि पङ्कान्तराणीव मृणालसूच्यः ।
पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥
अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् ।
इति कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0