महासुभाषितसंग्रह · श्लोक 2483-2502
अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥
अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिमांशुप्रकृतयः ।
ममाभ्यर्णे धार्ष्ट्याच्चरति पुनरिन्दीवरमिति क्रुधेवेदं प्रान्तारुणमवतु वो लोचनयुगम् ॥
अमीषां मण्डलाभोगः स्तनानामेव शोभते ।
येषामुपेत्य सोत्कम्पा राजानोऽपि करप्रदाः ॥
अमीषां मोहाद्वा धरणिधरचूडाञ्चलभुवाम् अभाग्याद्वा कैश्चिन्मरकतमणिश्चेन्न गणितः ।
तथासौ रथ्यायामपि निपतितः किं न कुरुते समुन्मीलन्नीलद्युतिलहरिलिप्ता इव दिशः ॥
अमीषामामोदप्रणयसुभगं संगतमभूत् प्रसूनैरुन्निद्रैः सह बहुभिरेव प्रतिवनम् ।
उदन्या न क्वापि व्यरमदरविन्दे परममी पिबन्ति स्वच्छन्दं रसमुदरपूरं मधुलिहः ॥
अमीषामारूढप्रसवविवराणां मधुलिहां ध्वनिः पान्थस्त्रीणां प्रसरति वियोगज्वर इव ।
द्रुमालीनां यूनोर्मन इव सरागं किसलयं परागः पुष्पाणां पतति मदनस्येव विशिखः ॥
अमीषामुष्णांशोः किरणनिकराणां परिचयात् सरस्तीक्ष्णं माभूस्तव किल निसर्गः शिशिरिमा ।
दुरात्मानो ह्येते कतिपयपयोबिन्दुरसिकान् निरस्यन्तः पान्थांस्त्वयि किमपि शोषं विदधति ॥
अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥
अमी हि वस्त्रान्तनिरुद्धवक्त्राः प्रयान्ति मे दूरतरं वयस्याः ।
परोऽपि बन्धुः सुखसंस्थितस्य मित्रं न कश्चिद् विषमस्थितस्य ॥
अमी हि वृक्षाः फलपुष्पशोभिताः कठोरनिष्पन्दलतोपवेष्टिताः ।
नृपाज्ञया रक्षिजनेन पालिता नराः सदारा इव यान्ति निर्वृतिम् ॥
अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु मधुलिहो माद्यति जनः ।
अयं च प्रत्यग्रं दशति सहकारं परभृतो यदीदं मर्मान्तर्विदलति क एष व्यतिकरः ॥
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झटिति झात्कारि सलिलम् ।
अये पश्यावस्थामकरुणसमीरव्यतिकर- स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥
अमुक्तां भूषयन्तु स्वां तनुं संसारसिन्धुगैः ।
मणिकर्णी ताम्रपर्णी मुक्तिमुक्ताफलैर्जनाः ॥
अमुद्रकुमुदत्विषः स्फुरितफेनलक्ष्मीस्पृशो मरालकुलविभ्रमाः शफरफाललीलाभृतः ।
जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी- तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ॥
अमुद्रोऽपि वरं कूपः समुद्रेणापि तेन किम् ।
सुस्वादु सलिलं यत्र पीयते पथिकैः पथि ॥
अमुना मरुकूपेन के के नाम न वञ्चिताः ।
रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥
अमुना यमुनाजलकेलिकृता सहसा तरसा परिरभ्य भृता ।
हरिणा हरिणी मृगनेत्रवती नवयौवनयौवनभारवती ॥
अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0