भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2463-2482

2463

अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥

2464

अमित्रप्रमिता ह्येता गतश्रद्धाः सुदारुणः ।
मूलप्रवादेन विषं प्रयच्छन्ति जिघांसवः ॥

2465

अमित्रव्यसनान्मित्रम् उत्थितं यद्विरज्यति ।
अरिव्यसनसिद्ध्या तच् छत्रुणैव प्रसिध्यति ॥

2466

अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ।
त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते ॥

2467

अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ॥

2468

अमित्रानपि कुर्वीत मित्रान्युपचयावहान् ।
अहिते वर्तमानानि मित्राण्यपि परित्यजेत् ॥

2469

अमित्रे विश्वासः श्वपचकरके सौमिकरसः कपाले गङ्गाम्भः खलपरिषदङ्के सुजनता ।
परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतःसिद्धां शुद्धिं त्यजति विपरीतं च फलति ॥

2470

अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ।
कृपा तस्मिन् न कर्तव्या हन्यादेवापकारिणम् ॥

2471

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात् कार्याणां तद्गत्या हि सदा गतिः ॥

2472

अमी कारागारे निविडनलिनीनालनिगडैर् निबध्यन्तां हंसाः प्रथमविसकन्दाङ्कुरभिदः ।
नवे वासन्तीनामुदयिनि वने गर्भकलिका- च्छिदो निर्धार्यन्तां परभृतयुवानो मदकलाः ॥

2473

अमी तटसमीपनिर्झरतरङ्गरिङ्गत्पयो- जडीकृतपटीरभूरुहकुटीरसंचारिणः ।
मनो विधुरयन्ति मे मलयमेखलामेदुराः दुरासदवनप्रियप्रियतमारुता मारुताः ॥

2474

अमी तिलाः तैलिक नूनमेतां स्नेहादवस्थां भवतोपनीताः ।
द्वेषोऽभविष्यद्यदमीषु नूनं तदा न जाने किमिवाकरिष्यः ॥

2475

अमी पानकरम्भाभाः सप्तापि जलराशयः ।
त्वद्यशोराज हंसस्य पञ्जरं भुवनत्रयम् ॥

2476

अमी पुरस्थाः सकलाः सुनिद्रिता न नूपुरं मुञ्च सुखेन यास्यसि ।
व्रजत्यपि श्रीपतिरङ्घ्रिमाश्रितं हरे तवाख्यातिरियं भविष्यति ॥

2477

अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवास्यतोत्पलम् ॥

2478

अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः ।
अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशुर् यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥

2479

अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शकरा ।
हयद्विषद्वष्कयणीपयः सुतं सुधाह्रदात् पङ्कमिवोद्धृतं दधि ॥

2480

अमी व्यर्थारम्भा दुरधिगमभूभृत्परिसरे विषक्ता लक्ष्यन्ते वयमिव हताशा जलधराः ।
ममेवान्तश्चेष्टाविफलविपुलाकारविभवाः स्वभूमौ यान्तीमाः परिणतिमसंख्याश्च सरितः ॥

2481

अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥

2482

अमीषां जन्तूनां कतिपयनिमेषस्थितिजुषां वियोगे धीराणां क इह परितापस्य विषयः ।
क्षणादुत्पद्यन्ते विलयमपि यान्ति क्षणममी न केऽपि स्थातारः सुरगिरिपयोधिप्रभृतयः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc