भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2443-2462

2443

अमात्यः शूर एव स्याद् युद्धसंपन्न एव च ।
तस्मादपि भयं राज्ञः पश्य राज्यस्य योजनम् ॥

2444

अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः ।
एताः प्रकृतयस्तज्ज्ञैर् विजिगीषोरुदाहृताः ॥

2445

अमात्याद्याः प्रकृतयो मित्रान्ता राज्यमुच्यते ।
अशेषराज्यव्यसनात् पार्थिवव्यसनं गुरु ॥

2446

अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोषराष्ट्रे तु दूते संधिविपर्ययौ ॥

2447

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
निग्राह्यः सर्वथा सद्भिर् न निग्राह्यो निगृह्यसे ॥

2448

अमात्यो युवराजश्च भुजावेतौ महीपतेः ।
मन्त्री नेत्रं हि तद्भिन्न एतस्मिन्नपि तद्वधः ॥

2449

अमात्सर्यं बुधाः प्राहुर् दानं धर्मे च संयमम् ।
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत् ॥

2450

अमानितं हि युध्येत कृतमानार्थसंग्रहम् ।
न विमानिमत्यर्थं प्रदीप्तक्रोधपावकम् ॥

2451

अमानुषं सत्त्वमन्तर् योगिनं प्रविशेद्यदि ।
वाय्वग्निधारणा चैनं देहसंस्थं विनिर्दहेत् ॥

2452

अमानेनापि भवता दानमानादिभिर्गुणैः ।
आश्रितः सर्व एवायं समानः क्रियते जनः ॥

2453

अमाययैव वर्तेत न कथंचन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥

2454

अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यम् अप्यृतौ स्नातको द्विजः ॥

2455

अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः ।
मदनानलबोधने भवेत् खग धाय्या धिगधैर्यधारिणः ॥

2456

अमितः समितः प्राप्तैर् उत्कर्षैर्हर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामसि ॥

2457

अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥

2458

अमितद्युतिराकरात् प्रसूतिः परिशुद्धा च महामणेर्विशेषः ।
मकुटे चरणाङ्गुलीयके वा विनिवेशः पुनरस्य शिल्पितन्त्रम् ॥

2459

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥

2460

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
शुभं वेत्त्यशुभं पापं भद्रं दैवहतो नरः ॥

2461

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति वः ।
मित्राणि तस्य नश्यन्ति अमित्रं नष्टमेव च ॥

2462

अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि ।
दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc