भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2423-2442

2423

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥

2424

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् ।
निर्धना पृथिवी नास्ति ह्याम्नायाः खलु दुर्लभाः ॥

2425

अमन्दतरवार्यग्रधाराहतमहीभृतः ।
चित्रचापधरा वीरा विद्योतन्ते घना इव ॥

2426

अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥

2427

अमन्दमत्तमातङ्ग आसाराभ्युदयान्वितः ।
इत्यादिलक्षणोपेतः स्कन्धावारः प्रशस्यते ॥

2428

अमन्दानन्दनिष्यन्दम् अपास्तान्यक्रियाक्रमम् ।
जगज्जन्मोत्सवे तस्याः पीतामृतमिवाभवत् ॥

2429

अमन्दानन्दानां गलदलघुसंतापविपदां पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः ।
कदा नः कालिन्दीसलिलशबलैरम्बरसरित् तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥

2430

अमन्यतासौ कुसुमेषु गर्भगं परागमन्धंकरणं वियोगिनाम् ।
स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु संगतम् ॥

2431

अमरतरुकुसुमसौरभ- सेवनसंपूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥

2432

अमरयुवतिगीतोद्ग्रीवसारङ्गशृङ्गो- ल्लिखितशशिसुधाम्भःशाद्वलारामरम्याम् ।
सुरपतिगजगण्डस्रंसिदानाम्बुधारा प्रसवसुरभिमाशां वासवीयां नमामि ॥

2433

अमरीमुखसीधुमाधुरीणां लहरी काचन चातुरी कलानाम् ।
तरलीकुरुते मनो मदीयं मुरलीनादपरंपरा मुरारेः ॥

2434

अमरुककवित्वडमरुक- नादेन विनुह्नुता न संचरति ।
शृङ्गारभणितिरन्या धन्यानां श्रवणविवरेषु ॥

2435

अमरैरमृतं न पीतमब्धेर् न च हालाहलमुल्बणं हरेण ।
विधिना निहितं खलस्य वाचि द्वयमेतद् बहिरेकमन्तरन्यत् ॥

2436

अमरैर्गतं मधुकरैश्चलितं प्रवरैः प्रयातमपि पद्मदृशाम् ।
विभवे गते सकलमेव गतं ध्रुवमेकमञ्चति यशः सरसः ॥

2437

अमर्त्याः सन्तु मर्त्या वा चेतनाः सन्त्वचेतनाः ।
दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥

2438

अमर्षिणा कृत्यमिव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥

2439

अमर्षोपगृहीतानां मन्युसंतप्तचेतसाम् ।
परस्परापकारेण पुंसां भवति विग्रहः ॥

2440

अमलमृणालकाण्डकमनीयकपोलरुचेस् तरलसलीलनीलनलिनप्रतिफुल्लदृशः ।
विकसदशोकशोणकरकान्तिभृतः सुतनोर् मदलुलितानि हन्त ललितानि हरन्ति मनः ॥

2441

अमलात्मसु प्रतिफलन्नभितस् तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचाम् अधिकावभासितदिशां निकरः ॥

2442

अमलीमसमच्छिद्रम् अक्रौर्यमतिसुन्दरम् ।
अदेयमप्रतिग्राह्यम् अहो ज्ञानं महाधनम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc