भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2403-2422

2403

अभ्युन्नता पुरस्ताद् अवगाढा जघनगौरवात् पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥

2404

अभ्युन्नतेऽपि जलदे जगदेकसार- साधारणप्रणयहारिणि हा यदेते ।
उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ॥

2405

अभ्युन्नतेवाङ्घ्रिनखाङ्कुराणां द्युतिर्विरेजे हरिणी दृशोऽस्याः ।
पुङ्खावली पञ्चशरा युधानां लावण्यदर्पद्विगुणीकृतेव ॥

2406

अभ्युन्नतोऽसि सलिलैः परिपूरितोऽसि त्वामर्थयन्ति विहगास्तृषितास्तथैते ।
कालः पयोधर परोपकृतेस्तवायं चण्डानिलव्यतिकरे क्व भवान् क्व ते वा ॥

2407

अभ्युपयुक्ताः सद्भिर् गतागतैरहरहः प्रखिन्दानाः ।
कृपणजनसंनिकर्षं प्राप्यार्थाः प्रस्वपन्तीव ॥

2408

अभ्युल्लसन्ति विनिवारितचन्दनानाम् एणीदृशां वपुषि कुङ्कुमपत्रलेखाः ।
अभ्यागताः करसरोजपदारविन्द- संरक्षणाय किरणा इव तिग्मभानोः ॥

2409

अभ्युष्णात् सघृतादन्नाद् अच्छिद्राच्चैव वाससः ।
अपरप्रेष्यभावाच्च भूय इच्छन् पतत्यधः ॥

2410

अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मया विगतलज्जः ।
चिच्छेदैष ममाशां सहसा प्रतिषेधशस्त्रेण ॥

2411

अभ्रच्छाया खलप्रीतिः समुद्रान्ते च मेदिनी ।
अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥

2412

अभ्रच्छाया खलप्रीतिर् नवसस्यानि योषितः ।
किंचित्कालोपभोग्यानि यौवनानि धनानि च ॥

2413

अभ्रच्छाया खलप्रीतिर् वेश्यारागो विभूतयः ।
महीभुजां प्रसादश्च पञ्चैते चञ्चलाः स्मृताः ॥

2414

अभ्रच्छाया तृणादग्निः खलप्रीतिः स्थले जलम् ।
वेश्यारागः कुमित्रं च षडेते बुद्बुदोपमाः ॥

2415

अभ्रच्छाया तृणादग्निः पराधीनं च यत् सुखम् ।
अज्ञानेषु च वैराग्यं क्षिप्रमेतद् विनश्यति ॥

2416

अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदानां धारासारैर्धरणिवलयं सर्वतः प्लावयन्ति ।
तेन स्नेहं वहति विपुलं मत्सखीयुक्तमेतत् त्वम् निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ॥

2417

अभ्रपुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि ।
स्तोककस्य खलु चञ्चुपुटेन म्लानिरुल्लसति तद्घनसंघे ॥

2418

अभ्रवृन्दं विशाखान्तं प्रसूत्यन्तं च यौवनम् ।
राज्यान्तं नरकं तद्वद् याचनान्तं हि गौरवम् ॥

2419

अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम् ।
इदं तु नयनद्वन्द्वं तव तद्गुणभूषितम् ॥

2420

अमज्जदाकण्ठमसौ सुधासु प्रियं प्रियाया वचनं निपीय ।
द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखे त्वमेया ॥

2421

अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥

2422

अमनस्कं गते चित्ते जायते कर्मणां क्षयः ।
यथा चित्रपटे दग्धे दह्यते चित्रसंचयः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc