महासुभाषितसंग्रह · श्लोक 2383-2402
अभ्यासः कर्मणां सम्यग् उत्पादयति कौशलम् ।
विधिना तावदभ्यस्तं यावत् सृष्टा मृगेक्षणा ॥
अभ्यासकारणा विद्या लक्ष्मीः पुण्यानुसारिणी ।
दानानुसारिणी कीर्तिर् बुद्धिः कर्मानुसारिणी ॥
अभ्यासरहिता विद्या निरुद्योगा नृपश्रियः ।
वेषयोषाश्च रागिण्यो हास्यायतनमङ्गने ॥
अभ्यासश्छन्दसां दण्डो ज्वरदण्डश्च लङ्घनम् ।
यमदण्डो विष्णुभक्तिः शत्रुदण्डः शुभा गतिः ॥
अभ्यासस्थितचूतषण्डगहनस्थानादितो गेहिनी ग्रामं कंचिदवृक्षकं विरहिणी तूर्णं वधूर्नीयताम् ।
अत्रायान्त्यचिरेण कोकिलकुलव्याहारझंकारिणः पन्थस्त्रीजनजीवितैकहरणप्रौढाः पुरो वासराः ॥
अभ्यासात्तु स्थिरस्वान्त ऊर्ध्वरेताश्च जायते ।
परानन्दमयो योगी जरामरणवर्जितः ॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणैर्मित्राणि धार्यन्ते अक्ष्णा क्रोधश्च धार्यते ॥
अभ्यासानुसरी विद्या बुद्धिः कर्मानुसारिणी ।
उद्योगानुसरी लक्ष्मीः फलं भाग्यानुसारि च ॥
अभ्यासेन स्थिरं चित्तम् अभ्यासेनानिलच्युतिः ।
अभ्यासेन परानन्दो ह्यभ्यासेनात्मदर्शनम् ॥
अभ्यासेनान्यसंचारो ह्यभ्यासेनान्यरूपता ।
अभ्यासेन समुत्क्रान्तिर् अभ्यासेनाणिमादयः ॥
अभ्यासो रतिहेतोर् भवति नराणां न वस्तुसद्गुणतः ।
सत्यपि मांसोपचये रागाय कुचौ स्फिजौ न पुनः ॥
अभ्यासो हि कर्मणां कौशलमावहति ।
न हि सकृन्निपातमात्रेणोद- बिन्दुरपि ग्रावणि निम्नतामादधाति ॥
अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले ।
मिथ्यैतदाननमिदं भवतस्तथा हि हेमन्तपद्ममिव निष्प्रभतामुपैति ॥
अभ्युत्थानमुपागते गृहपतौ तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधिस्तस्योपचर्या स्वयम् ।
सुप्ते तत्र शयीत तत्प्रथमतो जह्याच्च शय्यामिति प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः ॥
अभ्युद्धृता वसुमती दलितं रिपूरः क्रीडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं तदनेन यूना जन्मत्रये यदकरोत् पुरुषः पुराणः ॥
अभ्युद्यत्कवलग्रहप्रणयिनस्ते शल्लकीपल्लवास् तच्चास्फालसहं सरः क्षितिधृतामित्यस्ति को निह्नुते ।
दन्तस्तम्भनिषण्णनिःसहकरः श्वासैरतिप्रांशुभिर् येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् ॥
अभ्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्रक् संभारमङ्गलमयत्नकृतं विधत्ते ॥
अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥
अभ्युन्नतानामणुरप्युदारं पश्चात् प्रकोपं जनयेदरीणाम् ।
तं चाप्रमत्तः प्रसमीक्ष्य यायान्- न नाशयेद् दृष्टमदृष्टहेतोः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0