भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2363-2382

2363

अभूवन्नद्भुतोष्माणः शीतव्याप्ते जगत्त्रये ।
कुचोत्सङ्गाः कृशाङ्गीणां स्थानं मन्मथतेजसः ॥

2364

अभेदेनैव युध्येरन् रक्षेयुश्च परस्परम् ।
फल्गु सैन्यस्य यत् किंचिन् मध्ये व्यूहस्य तद्भवेत् ॥

2365

अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।
अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचय- प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥

2366

अभेद्योऽनुद्धतः स्तब्धः सूनृतः प्रियदर्शनः ।
बहुश्रुतः कालवेदी जितग्रन्थोऽर्थकर्मवित् ॥

2367

अभोगसुभगा भूतिर् अदैन्यधवलं कुलम् ।
अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥

2368

अभोगिनौ मण्डलिनौ तत्क्षणान्मुक्तकञ्चुकौ ।
वरमाशीविषौ स्पृष्टौ न तु पत्न्याः पयोधरौ ॥

2369

अभ्यक्तं रहसि गतं विचित्तमन्येन मन्त्रयन्तं वा ।
उचितप्रणयमपि नृपं सहसार्या नोपसर्पन्ति ॥

2370

अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्त्रैरगतिर् जनमिह सुखसङ्गिनमवैमि ॥

2371

अभ्यघानि मुनिचापलात् त्वया यन्मृगः क्षितिपतेः परिग्रहः ।
अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता ॥
अभ्यन्तरगता बाह्या बाह्याश्चाभ्यतरं गताः ।
यैर्नरा निधनं यान्ति यथा राजा कचद्रुमः ॥

2372

अभ्यर्थये किमपि जीवितजन्मतस्त्वाम् उत्कण्ठतोद्गति निःसर तावदेव ।
कान्ते दृगन्तपथलम्बिनि जीवतीति यावन्न कर्णपथमेति जनापवादः ॥

2373

अभ्यर्थ्य सप्रणति मन्दिरमभ्युपेता देवी स्वयं भगवती पृथगेव तासाम् ।
आसन्नवल्लभसमागमसूचनानि संजीवनानि वचनान्यपि वाचितानि ॥

2374

अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।
निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति वासना सुरधुनीतीरेऽनुरूपं वयः ॥

2375

अभ्यस्तेऽपि नितम्बभारफलके खेदालसेयं गतिः किंचित् संवलितार्धपक्ष्मविरलालोका दृशोऽन्तर्गताः ।
तन्मन्ये निभृतं त्वयाद्य हृदये कश्चिद्धृतो वल्लभो निश्वासाः कथमन्यथा द्विगुणतामेते तवैवं गताः ॥

2376

अभ्यस्तेऽपि हि नाम वस्तुनि चिरादज्ञानसंभावनं शौचाशौचाविवादिता विशकलस्मृत्यक्षरावर्तनम् ।
वारं वारमृणोपघातकथनं कोऽप्येष डम्भात्मनां प्रायो दग्धदुरीशवञ्चनविधौ जागर्त्यपूर्वः क्रमः ॥

2377

अभ्यस्य पवनविजयं व्याख्याय च शैवसंहिताः सकलाः ।
मरणसमये गुरूणां पर्दवदसवो विनिष्क्रान्ताः ॥

2378

अभ्यस्य वेदमवधाय च पूर्वतन्त्रम् आलक्ष्य शिष्टचरितानि पृथग्विधानि ।
अध्यापनादिभिरवाप्य धनं च भूरि कर्माणि मातरलसाः कथमाचरेयुः ॥

2379

अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्यासीज्जिगीषा सखि ।
उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाविलस्तन्मया सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ॥

2380

अभ्यस्यादौ श्रुतिमथ गृहं प्राप्य लब्ध्वा महार्थान् इष्ट्वा यज्ञैर्जनिततनयः प्रव्रजेदायुषोऽन्ते ।
इत्याचष्टे य इह स मनुर्याज्ञवल्क्योऽपि वा मे तावत् कालं प्रतिभवति चेदायुषस्तत्प्रमाणम् ॥

2381

अभ्यायान्तं झटिति गिलितुं वायुमप्यायतास्ये भीमाकारे प्रकृतिकुटिले बद्धनिर्व्याजवैरे ।
प्रायेणेत्थं कृतपरिचये पापिनि क्रूरसर्पे भद्रश्रीभिः परिचितिकथा कीदृशी मादृशानाम् ॥

2382

अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।
सैव दुर्भाषिता राजन्न् अनर्थायोपपद्यते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc