महासुभाषितसंग्रह · श्लोक 2343-2362
अभिषेकार्द्रशिरसा राजा राज्यावलोकिना ।
सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् ।
पुरुषेणासहायेन किमु राज्यं महोदयम् ॥
अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु ।
हृदि धरणिभुजामियं नृपश्रीर् निहितपदैव कलङ्कमातनोति ॥
अभिसरणमयुक्तमङ्गनानाम् इति तव सुन्दरि मा स्म भूद्वितर्कः ।
ननु पतिमगमत् स्वयं नदीनां सरिदपि शंभुजटामुहूर्तमाला ॥
अभिसरणरसः कृशाङ्गयष्टेर् अयमपरत्र न वीक्षितः श्रुतो वा ।
अहिमपि यदियं निरास नाङ्घ्रेर् निबिडतनूपुरमात्मनीनबुद्ध्या ॥
अभिसारे सरोजाक्षि यदि गन्तुं समीहसे ।
समाच्छाद्य मुखं याहि प्रयत्नेन प्रियं प्रति ॥
अभिहन्ति हन्त कथमेष माधवं सुकुमारकायमनवग्रहः स्मरः ।
अचिरेण वैकृतविवर्तदारुणः कलभं कठोर इव कूटपाकलः ॥
अभिहिताप्यभियोगपराङ्मुखी प्रकटमङ्गविलासमकुर्वती ।
उपरि ते पुरुषायितुमक्षमा नववधूरिव शत्रुपताकिनी ॥
अभीक्ष्णमुच्चैर्ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि ।
तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥
अभीप्सां स्वात्मनो रक्षाऽविरतं सुस्थिरं तथा ।
यत्नमातिष्ठ धैर्येण ततः सिद्धिर्भवेद् ध्रुवम् ॥
अभीष्टफलसंसिद्धिस् तुष्टिः काम्या सुसंपदः ।
द्वित्रिभिर्बहुभि सार्धं भोजनेन प्रजायते ॥
अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥
अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर् भुवस् तस्या लाभे क इव बहुमानः क्षितिभुजाम् ।
तदंशस्याप्यंशे तदवयवलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥
अभुक्त्वामलकं पथ्यं भुक्त्वा तु बदरीफलम् ।
कपित्थं सर्वदा पथ्यं कदली न कदाचन ॥
अभुञ्जतांश्चाददतां धनं चौरा हरन्ति हि ।
सरघाणां यथा सर्वं माक्षिकं वनचारिणः ॥
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं च दुःखम् ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपम् ॥
अभूतमासज्य विरुद्धमीहितं बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ॥
अभूत् प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
क्षणात् क्षीणास्तारा नृपतय इवानुद्यमपरा न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥
अभूदम्भोराशेः सह वसतिरासीत् कमलया गुणानामाधारो नयनफलमिन्दुः प्रथयति ।
कथं सिंहीसूनुस्तमपि तुदति प्रौढदशनैर् गुणानामास्वादं पिशुनरसना किं रसयति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0