महासुभाषितसंग्रह · श्लोक 2323-2342
अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
तद्बलीयस्तराह्वानं कुर्वीतात्मविमुक्तये ॥
अभियुक्तो यदा पश्येन् न कांचिद् गतिमात्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह ॥
अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
उपहारादृते तस्मात् संधिरन्यो न विद्यते ॥
अभिरामेऽभिनिवेशं विदधाना विविधलाभनिरपेक्षा ।
उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥
अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् ।
सेवेत सिद्धिमन्विच्छञ् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥
अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् असुगममरिसैन्यैरङ्कमभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोर् अविनयमपि सेहे पाण्डवस्य स्मरारिः ॥
अभिलषति न खलु पुरुषः श्रियमपि कीर्त्या विनाकृतां कुशलः ।
क्षणिकाय वस्तुने कस् त्यजतीह चिरस्थिरं श्रेयः ॥
अभिलषति पद्मयोनौ निःस्ववधूनां सुतान् स्रष्टुम् ।
स्वं स्वं विशङ्कमाना वेपन्ते क्रकचवर्त्तिनो लोकाः ॥
अभिलषतोरनुभावान् तिलोत्तमायाः किलोत्तमानुभयोः ।
सुन्दोपसुन्दयोरपि नाशो भेदादुदाह्रियते ॥
अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि मुधा बुधाः ।
सुरसुधामधरीकुरुते यतस् त्वदधरोऽधरतामगमत् ततः ॥
अभिलषसि यदीन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज संक्षालयाङ्कम् ।
सुविमलमथ बिम्बं पारिजातप्रसूनैः सुरभय वद नो चेत् त्वं क्व तस्या मुखं क्व ॥
अभिलषिताधिकवरदे प्रणिपतितजनार्तिहारिणि शरण्ये ।
चरणौ नमाम्यहं ते विद्याधरदेवते गौरि ॥
अभिवर्षति योऽनुपालयन् विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्त आयुः प्रज्ञा यशो बलम् ॥
अभिवादयेत वृद्धम् आसनं चास्य दर्शयेत् ।
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥
अभिवाद्य यथा वृद्धान् सन्तो गच्छन्ति निर्वृतिम् ।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥
अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ॥
अभिशप्तः पुण्यकार्ये प्रवृत्तोऽपि न सिद्धिभाक् ।
भर्त्रानुगमनोद्युक्ता रेणुका जनमारिका ॥
अभिशस्तवत् प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम् ।
दारिद्र्यं पातिकं लोके कस्तच्छंसितुमर्हति ॥
अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः ।
क्षुभितसैन्यपरागविपाण्डुर- द्युतिरयं तिरयन्नुदभूद्दिशः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0