भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2303-2322

2303

अभिमतवस्तूपहृता- वपि गुरुगर्वादनादरस्तन्व्याः ।
स्खलितेऽपि प्रियस्य सं- यमताडनमित्येव बिब्बोकः ॥

2304

अभिमतसिद्धिरशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवमिति यदपि कथयसि पुरुषगुणः सोऽप्यदृष्टाख्यः ॥

2305

अभिमन्त्र्य शुचिविधानाद् आज्याढ्यं हस्तिकर्णजं चूर्णम् ।
योऽश्नाति स हि नरः स्याद् यथेष्टचेष्टोऽपि दीर्घायुः ॥

2306

अभिमानधनं येषां चिरं जीवन्ति ते नराः ।
अभिमानविहीनानां किं धनेन किमायुषा ॥

2307

अभिमानधनस्य गत्वरैर् असुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् ॥

2308

अभिमानवतां पुंसाम् आत्मसारमजानताम् ।
अन्धानामिव दृश्यन्ते पतनान्ताः प्रवृत्तयः ॥

2309

अभिमानवतां ब्रह्मन् युक्तायुक्तविवेकिनाम् ।
युज्यतेऽवश्यभोग्यानां दुःखानामप्रकाशनम् ॥

2310

अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥

2311

अभिमानितभूतेन सानुबन्धरसेन तु ।
यतः सर्वेन्द्रियप्रीतिः स कामः प्रोच्यते बुधैः ॥

2312

अभिमानिनमुद्भ्रान्तम् आत्मसंभावितं शठम् ।
क्रोधनं चैव नृपतिं व्यसने घ्नन्ति वैरिणः ॥

2313

अभिमुखगते यस्मिन्नेव प्रिये बहुशो वदत्य् अवनतमुखं तूष्णीमेव स्थितं मृगनेत्रया ।
अथ किल बलाल्लीलालोलं स एष तथेक्षितः कथमपि यथा दृष्ट्या मन्ये कृतं श्रुतिलङ्घनम् ॥
अभिमुखमधुरतरेभ्यः पराङ्मुखाक्रोशनात् कुशीलेभ्यः ।
अभ्यन्तरकलुषेभ्यो भेतव्यं मित्रशत्रुभ्यः ॥

2314

अभिमुखनिहतस्य सतस् तिष्ठतु तावज्जयोऽथ वा स्वर्गः ।
उभयबलसाधुवादः श्रवणमुखोऽस्त्येव चात्यर्थम् ॥

2315

अभिमुखपतयालुभिर्ललाट- श्रमसलिलैरविधौतपत्रलेखः ।
कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः कपोलः ॥

2316

अभिमुखपतितैर्गुणप्रकर्षाद् अवजितमुद्धतिमुज्ज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥

2317

अभिमुखमुपयाति मां स्म किंचित् त्वमभिदधाः पटले मधुव्रतानाम् ।
मधुसुरभिमुखाब्जगन्धलब्धेर् अधिकमधि त्वदनेन मा निपाति ॥

2318

अभिमुखागतमार्गणधोरणि- ध्वनितपल्लविताम्बरगह्वरे ।
वितरणे च रणे च समुद्यते भवति कोऽपि परं विरलः परः ॥

2319

अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥

2320

अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥

2321

अभियाति नः सतृष एष चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥

2322

अभियुक्तं बलवता दुर्लभं हीनसाधनम् ।
हृतस्वं कामिनं चोरम् आविशन्ति प्रजागराः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc