महासुभाषितसंग्रह · श्लोक 2283-2302
अभिनववधूरोषस्वादः करीषतनूनपाद् असरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर् विरहिवनितावक्त्रौपम्यं बिभर्ति निशाकरः ॥
अभिनवविषवल्लीपादपद्मस्य विष्णोर् मदनमथनमौलेर्मालतीपुष्पमाला ।
जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपितकलिकलङ्का जाह्नवी नः पुनातु ॥
अभिनवसेवकविनयैः प्राघुणकोक्तैर्विलासिनीरुदितैः ।
धूर्तजनवचननिकरैर् इह कश्चिदवञ्चितो नास्ति ॥
अभिनषति वैनतेयं चामरसहितः ससत्यभामो यः ।
नारायणः स साक्षाद् विबुधसमर्च्यः सदा जयतु ॥
अभिन्नवेलौ गम्भीराव् अम्बुराशिर्भवानपि ।
असावञ्जनसंकाशस् त्वं तु चामीकरद्युतिः ॥
अभिन्नेष्वपि कार्येषु भिद्यते मनसः क्रिया ।
अन्यथैव स्तनं पुत्रश् चिन्तयत्यन्यथा पतिः ॥
अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् ।
विधुवति गरुतं रुतं विधत्ते जलपृषते कियतेऽपि चातकोऽयम् ॥
अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्यतन्द्रीः ।
वक्ता हितानामनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥
वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश्चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक्त्वरयैव भृत्यः ॥
अभिप्रायानुसारेण प्रकटीकुरुते प्रियम् ।
अहो महाप्रभावानां भूपतीनां वसुंधरा ॥
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश्चचाल जिष्णुर् न हि महतां सुकरः समाधिभङ्गः ॥
अभिभूतोऽपि नोत्साहं जह्याज्जातु स्वसिद्धये ।
नष्टाङ्गोऽपि ग्रसत्येव सैंहिकेयो मुहुर्द्विषौ ॥
अभिभूतोऽप्यवज्ञातो यो राज्ञां द्वारि तिष्ठति ।
स तु राज्ञां श्रियं भुङ्क्ते नाभिमानी कदाचन ॥
अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितम् ॥
अभिभूय सतामवस्थितिं जडजेषु प्रतिपाद्य च श्रियम् ।
जगतीपरितापकृत् कथं जलधौ नावपतेदसौ रविः ॥
अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं कंचनोदाहरामः ।
कथमिह मधुरोक्तिप्रेमसंमानमिश्रं तुलयति सुरशाखी देव दानं त्वदीयम् ॥
अभिमतफलसिद्धिसिद्धमन्त्रा- वलि बलिजित्परमेष्ठिनोरुपास्ये ।
भगवति मदनारिनारि वन्दे निखिलनगाधिपभर्तृदारिके त्वाम् ॥
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥
अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलसल्लज्जावल्लीविदारकुठारिका जठरपिठरी दुःपूरेयं करोति विडम्बनाम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0