महासुभाषितसंग्रह · श्लोक 2263-2282
अभितिग्मरश्मि चिरमाविरमा- दवधानखिन्नमनिमेषतया ।
विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥
अभितो नितरां सलिलं जलदे दातुं समुद्यते भवति ।
तदपि बहुलमल्पं वा पात्राधीनं मतं पतनम् ॥
अभित्तावुत्थिते चित्रे दृश्यते भित्तिरातता ।
अहो विचित्रा मायेयं भग्नं तुण्डं शिलाप्लुता ॥
अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनाम् आपदामेति पात्रताम् ॥
अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥
अभिधावति मां मृत्युर् अयमुद्गूर्णमुद्गरः ।
कृपणं पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥
अभिध्यालु परस्वेषु नेह नामुत्र नन्दति ।
तस्मादभिध्या संत्याज्या सर्वदाभीप्सता सुखम् ॥
अभिनयशस्तौ हस्तौ पादौ परिभूतकिसलयौ सलयौ ।
अङ्गं रञ्जितरङ्गं नृत्तं पुंभावशालि समवृत्तम् ॥
अभिनयान् परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत् सहकारलता मनः सकलिका कलिकामजितामपि ॥
अभिनवं गलितांशुकदर्शितं दधति यत्स्तनयोरुपरिस्थितम् ।
वसनमण्डलमण्डनमङ्गनास् तदधिकं प्रतिपक्षमनोज्वरम् ॥
अभिनवकुशसूत्रस्पर्धि कर्णे शिरीषं कुरवकपरिधानं पाटलादाम कण्ठे ।
तनुसरसजलार्द्रोन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेशश्चकास्ति ॥
अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनामनारतमाहरंस् तरुणि तनुते तारुण्यश्रीर्विलासवतंसताम् ॥
अभिनवनलिनीकिसलय- मृणालवलयादि दवदहनराशिः ।
सुभग कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ॥
अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः ।
भ्रमति मधुकरोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा ॥
अभिनवनवनीतप्रीतमाताम्रनेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम् ।
हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कंचिदीडे ॥
अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच् छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः ॥
अभिनवपल्लवरशना शिशिरतरतुषारजलमङ्गलस्नाता ।
पुष्पवती चूतलता प्रियेव ददृशे फलाभिमुखी ॥
अभिनवपुलकालीमण्डिता गण्डपाली निगदति विनिगूढानन्दहिन्दोलिचेतः ।
सुदति वदति पुण्यैः कस्य धन्यैर्मनोज- प्रसरमसकृदेतच्चापलं लोचनस्य ॥
अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छवासिपालम् ।
परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिमशेषं नागरङ्गं चकास्ति ॥
अभिनवयवसश्रीशालिनि क्ष्मातलेऽस्मिन् अतिशयपरभागं भेजिरे जिष्णुगोपाः ।
कुवलयशयनीये मुग्धमुग्धेक्षणाया मणय इव विमुक्ताः कामकेलिप्रसङ्गात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0