महासुभाषितसंग्रह · श्लोक 2243-2262
अभग्नवृत्ताः प्रसभाद् आकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लता ॥
अभयं सत्त्वसंशुद्धिर् ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥
अहिंसा सत्यमक्रोधस् त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥
तेजः क्षमा धृतिः शौचम् अद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ॥
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः ।
तस्य देहविमुक्तस्य क्षय एव न विद्यते ॥
अभयमभयं देव ब्रूमस्तवासिलतावधूः कुवलयदलश्यत्मा शत्रोरुरःस्थलशायिनी ।
समयसुलभां कीर्तिं भव्यामसूत सुतामसाव् अपि रमयितुं रागान्धेव भ्रमत्यखिलं जगत् ॥
अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥
अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥
अभवदभिनवप्ररोहभाजां छविपरिपाटिषु यः पुराङ्गकानाम् ।
अहह विरहवैकृते स तस्याः क्रशिमनि संप्रति दूर्वया विवादः ॥
अभव्यजीवो वचनं पठन्नपि जिनस्य मिथ्यात्वविषं न मुञ्चति ।
यथा विषं रौद्रविषोऽति पन्नगः सशर्करं चारु पयः पिबन्नपि ॥
अभावि सिन्ध्वा संध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ॥
अभावे न नरस्तस्माद् भावः सर्वत्र कारणम् ।
चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः ॥
अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते ।
गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ॥
अभिगम्यास्ते सद्भिर् व्यपगतमानावमानदोषाश्च ।
ये स्वगृहमुपगतानां श्रममुपचारैर्व्यपनयन्ति ॥
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगरुभिः कृत्यैरस्य प्रतिक्षणमाकुला ।
तनयमचिरात् प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥
अभिजातजनव्यथावहा बहलोष्मप्रसरा विदाहिनः ।
प्रखला इव दृष्टिमागता भुवि तापाय निदाघवासराः ॥
अभितापसंपदमथोष्णरुचिर् निजतेजसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेर् अधिरोढुमस्तगिरिमभ्यपतत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0