महासुभाषितसंग्रह · श्लोक 2223-2242
अबालरुचिरे भ्रुवौ न च मरालमन्दा गतिर् दृगञ्चलमचञ्चलं हृदयभूदभूतो दया(?) ।
सुधा न खलु वाक्पथातिथिरथापि यूनां मनो मनोजशरजर्ज्जरन्नयति मोहमस्यास्तनुः ॥
अबुधा अजंगमा अपि कयापि गत्या परं पदमवाप्ताः ।
मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥
अबुधैः कृतमानसंविदस् तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् ।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥
अथ चेद् बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।
पापान् स्वल्पेऽपि तान् हन्याद् अपराधे तथानृजून् ॥
अबुद्ध्वा चित्तमप्राप्य विश्रम्भं प्रभविष्णुषु ।
न स्वेच्छं व्यवहर्तव्यम् आत्मनो भूतिमिच्छता ॥
अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥
अब्जं त्वज्जमथाब्जभूस्तत इदं ब्रह्माण्डमण्डात् पुनर् विश्वं स्थावरजंगमं तदितरत् त्वन्मूलमित्थं पयः ।
धिक् त्वां चौर इव प्रयासि निभृतं निर्गत्य जालान्तरैर् बध्यन्ते विवशास्त्वदेकशरणास्त्वामाश्रिता जन्तवः ॥
अब्दायनर्तुष्वथ मासपक्ष- दिनानि कार्येऽप्यवधौ विदध्यात् ।
हीनावधिर्येन भवत्यसत्यः सर्वोऽपि लोके शकुनो गृहीतः ॥
अब्देभकुम्भे निर्बिन्ने विद्युत्खड्गलताहते ।
स्वच्छमुक्ताफलस्थूला निपेतुस्तोयबिन्दवः ॥
अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः संसर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित् ।
मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनारातिवधूविलोचनजलैः सिक्तोऽपि संवर्धते ॥
अब्धिना सह मित्रत्वे दारिद्र्यं यदि जायते ।
लाञ्छनं सागरस्यैव मैत्रीकर्तुर्न लाञ्छनम् ॥
अब्धिर्न तृप्यति यथा सरितां सहस्रैर् नो चेन्धनैरिव शिखी बहुधोपनीतैः ।
जीवः समस्तविषयैरपि तद्वदेवं संचिन्त्य चारुधिषणस्त्यजतीन्द्रियार्थान् ॥
अब्धिर्यद्यवधीरितो न तु तदा तस्मान्निपीयाम्बुदैर् वान्तान् याचसि काकुभिर्जललवानुत्तानचञ्चूपुटः ।
तत्ते निस्त्रपनीचतैवमुचिता निर्वक्तुमेतत् कथं विद्मः केन गुणेन मानिषु पुनः सारङ्ग संगीयते ॥
अब्धी रत्नमधो धत्ते धत्ते वा शिरसा तृणम् ।
अब्धेरेव हि दोषोऽयं रत्नं रत्नं तृणं तृणम् ॥
अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः । पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते ।
आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥
अब्धौ मज्जन्ति मीना इव फणिन इव क्षौणिरन्ध्रं विशन्ति क्रामन्त्यद्रीन् विहङ्गा इव कपय इव क्वाप्यरण्ये चरन्ति ।
देव क्ष्मापालशक्र प्रसरदनुपमत्वच्चमूचक्रवाह- व्यूहव्याधूतधूलीपटलहतदृशः कान्दिशीकाः क्षितीशाः ॥
अब्रवीच्च भगवन् मतङ्गजैर् यद्बृहद्भिरपि कर्म दुष्करम् ।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टितम् ॥
अभक्ष्यं भक्षयेन्नित्यं सुवासोमद्यपा गृहे ।
कुष्ठी भवति वित्तेशो वेश्यादोषाः स्वभावजाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0