महासुभाषितसंग्रह · श्लोक 2203-2222
अप्रियोऽपि हि पथ्यः स्याद् इति वृद्धानुशासनम् ।
वृद्धानुशासने तिष्ठन् प्रियतामुपगच्छति ॥
अप्रीतां रोगिणीं नारीम् अन्तर्वत्नीं धृतव्रताम् ।
रजस्वलामकामां च न कामेत बलात् पुमान् ॥
अप्सु प्लवन्ते पाषाणा मानुषा घ्नन्ति राक्षसान् ।
कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ॥
अप्स्वात्मानं न वीक्षेत नावगाहेत् पयोरयम् ।
संदिग्धनावं नारोहेन् न बाहुभ्यां नदीं तरेत् ॥
अफलं श्राद्धम् अपात्रे धनम् अफलं यत् न दत्तमर्थिभ्यः ।
यौवनमफलं यमिनश् श्रुतमफलं दुर्विनीतस्य ॥
अफलस्यापि वृक्षस्य छाया भवति शीतला ।
निर्गुणोऽपि वरं बन्धुर् यः परः पर एव सः ॥
अफलानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च कार्याणि नारभेत विचक्षणः ॥
अबन्धुष्वपि बन्धुत्वं स्नेहात् समुपजायते ।
बन्धुष्वपि च बन्धुत्वम् अलोकज्ञेषु हीयते ॥
अबलः प्रोन्नतं शत्रुं यो याति मदमोहितः ।
युद्धार्थं स निवर्तेत शीर्णदन्तो यथा गजः ॥
अबलस्वकुलाशिनो झषान् निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान् मृगयाघाय न भूभुजां घ्नताम् ॥
अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥
अबला अपि वीरेशान् यत्साहाय्यमुपाश्रिताः ।
पराभवन्ति दृक्कोणपातेनैव स मन्मथः ॥
अबलाढ्यविग्रहश्रीर् अमर्त्यनतिरक्षमालयोपेतः ।
पञ्चक्रमोदितमुखः पायात् परमेश्वरो मुहुरनादिः ॥
अबलाबुद्धिहीनाया दोषं क्षन्तुं सदार्हसि ।
मूढस्य सततं दोषं क्षमां कुर्वन्ति साधवः ॥
अबला यत्र प्रबला शिशुरवनीशो निरक्षरो मन्त्री ।
नहि नहि तत्र धनाशा जीवित आशापि दुर्लभा भवति ॥
अबलावनपर एको भुवनत्रितयेऽपि चेत्तदा भर्त्ता ।
कथमन्यथा सुधाकर- चन्दनमुख्याप्रियत्वं स्यात् ॥
अबला विषहेत कथं दृढशक्तिममुष्य रतिरसप्रसरम् ।
मदनतुलितानुरागो न विदध्याद्यदि बलाधानम् ॥
अबलासु विलासिनोऽन्वभूवन् नयनैरेव नवोपगूहनानि ।
मरुदागमवार्तयापि शून्ये समये जाग्रति संप्रवृद्ध एव ॥
अबलेति परीवादो वृथा हि हरिणीदृशाम् ।
यासां नेत्रनिपातेन नटवद् घूर्ण्यते जगत् ॥
अबले सलिले व्यवस्यता ते मुखभावो गमितो न पङ्कजेन ।
कथमादिमवर्णतान्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ॥
अबलोऽसि न जितकाशी- प्रतिभटराशीन् परापत क्षितिप ।
जाताम्भःकणपातः क्व विनश्यत्यनलसंघातः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0