भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2183-2202

2183

अप्राप्तवल्लभसमागमनाधिकायाः सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या ।
आलापवेषगतिहास्यविकत्थनाद्यैः प्राणेश्वरानुकृतिमाकलयन्ति लीलाम् ॥

2184

अप्राप्येऽपि यथा कामे धर्मे चिन्ता न किं तथा ।
अलाभेऽपि द्वयोरेका भयदा शिवदापरा ॥

2185

अप्राप्येषुरुदासितासिरशनेरारात् कुतः शङ्कुतश् चक्रव्युत्क्रमकृत् परोक्षपरशुः शूलेन शून्या यया ।
मृत्युर्दैत्यपतेः कृतः स सदृशः पादाङ्गुलीपर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥

2186

अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
सर्वत्र चानवस्थानम् एतन्नाशनमात्मनः ॥

2187

अप्रार्थनमसंस्पर्शम् असंदर्शनमेव च ।
पुरुषस्येह नियमो भवेद्रागप्रहाणये ॥

2188

अप्रार्थितं यथा दुःखं तथा सुखमपि स्वयम् ।
प्राणिनं प्रतिपद्येत सर्वं नियतियन्त्रितम् ॥

2189

अप्रियं न हि भाषेत न विरुध्येत केनचित् ।
कार्यसिद्धिं समीहेत कार्यभ्रंशो हि मूर्खता ॥

2190

अप्रियं पुरुष चापि परद्रोहं परस्त्रियम् ।
अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत् ॥

2191

अप्रियं यस्य कुर्वीत भूयस् तस्य प्रियं चरेत् ।
अचिरेण प्रियः स स्याद् योऽप्रियः प्रियमाचरेत् ॥

2192

अप्रियमुक्ताः पुरुषाः प्रयतन्ते द्विगुणमप्रियं वक्तुम् ।
तस्मादवाच्यमप्रियम् अप्रियमश्रोतुकामेन ॥

2193

अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः क्वचित् क्वचिन् मण्डिता वसुधा ॥

2194

अप्रियवचनाङ्गारैर् दग्धोऽपि न विप्रियं वदत्यार्यः ।
किं दह्यमानमगरु स्वभावसुरभिं परित्यजति ॥

2195

अप्रियस्यापि वचसः परिणामाविरोधिनः ।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र संपदः ॥

2196

अप्रियाण्यपि कुर्वन्तः स्वार्थायोद्यत चेष्टिताः ।
पण्डिता नोपलभ्यन्ते वायसैरिव कोकिलाः ॥

2197

अप्रियाण्यपि कुर्वाणो निष्ठुराण्यपि च ब्रुवन् ।
चेतः प्रह्लादयत्येव सर्वावस्थासु वल्लभः ॥

2198

अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः ।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥

2199

अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥

2200

अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति ।
अहं च न भविष्यामि सर्वं च न भविष्यति ॥

2201

अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम् ॥

2202

अप्रियैरपि निष्पिष्टैः किं स्यात् क्लेशासहिष्णुभिः ।
ये तदुन्मूलने शक्ता जिगीषा तेषु शोभते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc